________________
इति विचार्य ध्यानाज्जाग्रत् संस्तं श्रीकदम्बाख्यगिरिम्प्रति यतीश्वरं श्रीने मिसूरिं भगवदात्मभूतं निजानन्दसहितं मनसा प्रेरितवान् यद् भवान् भगवद्रूपोऽस्ति भव्यजीवानुग्रहार्थञ्च पृथिव्यां सञ्जातः । अयं भवतो लोकोत्तरावतारस्ततो जिनेश्वरधर्मविस्तारं करोतु । अतो भवान् स्वोपार्जितदिव्यज्ञानेन जिनप्रासादादीनि निर्माप्य प्रतिष्ठायात्रादिमहोत्सवञ्च कारयित्वा सर्वेषां जीवानां जिनधर्मसम्प्रदाय-पुरस्सरमुद्धारं करोतु तेन भवतोऽवतारसाफल्यं भविष्यति । ततो भोगेन पुण्यक्षयं कुर्वन् कुशलेन कर्मणा पापक्षयं कुर्वन् कालजवेन कलेवरं हित्वा देवलोकगीतां विशुद्धां कीर्तिमवाप्य मुक्तबन्धः सन् आत्मज्योतिःस्वरूपमेष्यति भवात् । इति शासनाधिष्ठायकः सद्गुरुं नेमिसूरिमादिष्टवान् ।
अतः भव्यानुग्रहसम्भूतं जिनाज्ञापरिपालकम् । भव्येभ्यो मोक्षदातारं नेमिसूरिं गुरुं नमः ॥७॥ कदम्बाख्यगिरिं नत्वा शत्रुञ्जयासमीपगम् । देवधर्मगुरुं नत्वा मोक्षधर्मं समाचरेत् ॥८॥ इति धर्मविधिं कृत्वा मानुष्यं मोक्षहेतुकम् । सफलं कुरु जीवात्मन् ! मोक्षं प्राप्तुं यदीच्छसि ॥९॥
अतो नरकार्हाणां जीवानां च भव्यानामपि तारणार्थमयं कदम्बाख्यो गिरिवर्तते । तस्मात्तत्र सङ्घयात्रया गत्वा जिनमन्दिरं वा मूर्ति प्रतिष्ठाप्य गुर्वाज्ञां गृहीत्वा तदाज्ञापुरस्सरं शुद्धधर्मं विज्ञाय सुकृती भव्यो जीव आत्ममोक्षं कुर्यादिति शम् ॥
॥ इति श्रीकदम्बगिरि-माहात्म्यम् ॥
श्रीकदम्बगिरेर्माहात्म्यम्
13