SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ५. श्री कदम्बगिरेर्माहात्म्यम्-अज्ञातकर्तृकम् । - आचार्यविजयहेमचन्द्रसूरिद्वारा प्राप्तम् कदम्बगिरिमाहात्म्यं वर्णयामि स्वशक्तितः । तथा शत्रुञ्जयस्नान-महिमानमनुत्तमम् ॥१॥ सुदुस्तरे कलियुगे पञ्चमारेऽपि सम्प्रति । मनुष्याः पापकर्माणो रागद्वेषसमाकुलाः ॥२॥ प्रतिधर्ममविश्वस्ताः कुतर्का नास्तिका जनाः । पाखण्डधर्मनिरता देवधर्मविनिन्दकाः ॥३॥ गुरुमानमकुर्वन्तः पतन्ति नरकेऽशुचौ । मातृपितृगुरुभक्ति-रहिताः सकला जनाः ॥४॥ गुरुविद्वेषमिच्छन्ति धनमानमदान्विताः । स्तब्धा दुर्व्यसनासक्ताः पुत्रस्त्रीद्रव्यलालसाः ॥५॥ अहं-ममेत्यभिहताः सच्छासनपराङ्मुखाः । अन्योऽन्यं द्वेषकर्तारः सतां दुःखप्रदायकाः ॥६॥ इति दोषविभेदेन पतन्ति नरकेऽशुचौ । जिनशासनभक्तिवत्सलतया कृपालुना शासनाधिष्ठायकेन विचारितं स्वमनसि यद्येते उपरि वर्णिता महापापिजना भगवद्विमुखा भूत्वा स्वेनैव दोषेण नरके पतिष्यन्ति तन्मम शासनाधिष्ठायकताया किं महत्त्वं यद्येतेषां महापापिनामपि पतितपावनपरमात्मश्रीकदम्बगिरेर्माहात्म्यम् 11
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy