SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ ५. पूज्यपादशासनसम्राट श्रीपरमगुरुभगवतां प्रथम दर्शनम् । -आ. विजयहेमचन्द्रसूरिः (देवशिशुः) तदानीमहं नववर्षीय एवाऽऽसम् । पूज्यशासनसम्राटश्रीमद्विजयनेमिसूरीश्वरगुरुप्रवरा निजविशालशिष्यप्रशिष्यवृन्दपरिवृता राजनगरतो विहृत्य श्री शेरीसातीर्थे प्रकटप्रभाविश्रीशेरीसापार्श्वनाथप्रमुखजिनबिम्बानां प्रतिष्ठां चिकीर्षवः साभ्रमतीग्रामे घीयालालभाई फुलचन्द्र श्रेष्ठिनो गृहाङ्गणे पादाववधारितवन्तः । तदा बालसहजौत्सुक्येन समवयस्कमित्रबालैः सह (केऽपि महान्तो गुरुभगवन्तोऽत्र समागताः सन्ति, अतश्चलन्तु, वयं तेषां दर्शनार्थं गच्छाम इति मनसि विचार्य) तत्र गत्वा तेषां गुरुभगवतां प्रथमं दर्शनं कृतमासीत् । एतदर्शनेनाऽहं निजात्मानं प्रबलपुण्यशालिनं परमभाग्यवन्तं च मन्ये । ___ तदनन्तरं त्र्यधिकद्विसहस्रमितेऽब्दे तु ते हि पूज्यप्रवराः स्वकीयपट्टधरसिद्धान्तवाचस्पति-न्यायविशारदपूज्याचार्यश्रीमद्विजयोदयसूरीश्वर-तत्पट्टधरशास्त्रविशारद-कविरल-न्यायवाचस्पति-सिद्धान्तमार्तण्डपूज्याचार्यश्रीमद्विजयनन्दनसूरीश्वरप्रभृत्यनेकलघ्वलघुशिष्यपरिवारपरिवृता वर्षावासकृते साभ्रमतीग्रामे समागताः । तदा विविध हैम रचना समुच्चय 252
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy