________________
भगवतः पार्वात् प्रतिनिवृत्य ऊर्ध्वमुत्पत्य गोशालशरीरे एवाऽनुप्रविष्टा । तया दग्धोऽपि स भगवदुपरि नैव मत्सरं तत्याज । रुष्टश्च स भगवन्तमाह-भो काश्यप ! एतत्तेजोलेश्याप्रभावेण त्वं षण्मासाभ्यन्तरे एव कालं करिष्यसि, दुःखमवाप्स्यसि च । ___ तदा प्रभुणा भणितम् - रे गोशाल ! नाऽहं तव कथनानुसारेण कालं करिष्यामि, अहं तु ममावशिष्टं षोडशवर्षायुः पूर्णं कृत्वा केवलिपर्यायं च पालयित्वा पश्चान्मोक्षं गमिष्यामि । त्वं तु पुनः इतः सप्तदिनमध्ये एव निजतेजोलेश्यादग्धाङ्गः कालं करिष्यसि । ततः भगवदुक्तानुसारेण तस्य सर्वं जातम्, परमन्तसमये मिथ्यात्वक्षयोपशमतः प्रादुर्भूतसम्यक्त्वप्रभावेण तस्य सद्बुद्धिः समुत्पन्ना । तया सपदि स विचारयितुं लग्नः, अरे ! मोहमूढचित्तत्वेन मया कीदृगघटितमाचरितम्, प्रभोर्वीरस्य च महत्याशातना विहिता, अथ मम किं भविष्यति । क्वाऽस्म्यहं जिनः ? अहं मंखलिपुत्रः गोशालः महापापः श्रमणघातकः गुरुप्रत्यनीकश्च, जिनस्तु महावीर एव ।
स्वानुयायिवर्गमाहूय स्वचिन्तितं सर्वं कथयन्नाह-मया यत्पूर्वं युष्माकं सविधे कथितं तत्सर्वमलीकं मन्तव्यम्, नाऽहं जिनः अहं तु पापात्मा गोशालः, जिनस्तु महावीर एव । युष्माभिः सर्वैः मम दुश्चरितं सर्वत्रोद्घोषणीयम्, भगवतो महावीरस्य च तीर्थकरत्वादिगुणानामुत्कीर्तनं च कर्तव्यम् ।
कथमस्माभिः स्वेष्टगुरोरेवमपमानादिकं सर्वजनसाक्षिकं क्रियते, तदाज्ञापालनलोपोऽपि कर्तुमनुचितः । ततः गेहाभ्यन्तरे एव नगरादिकल्पनां कृत्वा तदाज्ञामुच्चैरुद्घोष्य पश्चात् महता महेन तस्याऽग्निसंस्कारः कृतः ।
__ प्रभोर्वीरस्य च तया लोहखण्डवर्चपीडा समभवत्, शरीरकार्यं च सञ्जातम् । सर्वे जनाः एवं कथयन्त आसन् यत् गोशालवचनं कदाचित् सफलमपि भवेत् ।
प्रसङ्गाः अहो ! अत्यद्भुतं भगवतो वीरस्य वात्सल्यम्
249