SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ ३. चरित्रकथा शास्त्रविशारद-कविरत्न-पीयूषपाणि-पूज्यपादाचार्य श्रीमद्विजयामृतसूरीश्वराणां पुण्यजीवनलेशः -ले. पूज्यपादाचार्यश्रीविजयदेवसूरिश्वराणां शिष्यः विजयहेमचन्द्रसूरिः प्रतिपलमपि निजजनुषो, येन व्ययितं परोपकृतिकरणे । तमनुपमोज्ज्वलचरितं, वन्दे विजयामृतं सूरिम् ॥ सकलासुमत्सुखसन्दोहदानप्रपाभं लोकोत्तरं श्रीजिनशासनसाम्राज्यमद्यावधि यदस्खलितं प्रवर्तते तत्र श्रीमद्गुरुभगवतामेव परमोपकारः । चरमतीर्थपतिश्रीमहावीरप्रभोः पट्टपरम्परायामनेकानेके सूरीश्वराः समभूवन् येषां शरदिन्दुसमुज्ज्वलचरितानि विदित्वा वयमतीवाऽऽश्चर्यचकिता भवामः । श्रीमद्वीरप्रभोः प्रथमपट्टधरः सञ्जातः पञ्चमगणभृत् श्रीसुधर्मस्वामी भगवान् । तदनुचरमकेवलिश्रीजम्बूस्वामिप्रभृतयः गुणगणमणिरोहणायमानाः श्रुतधरपुरुषाः क्रमशः सञ्जाताः । तत्परम्परायामेव विक्रमीये विंशतितमे शतके सञ्जाताः श्रीमन्तः नेमिसूरीश्वराः, ये हि शासनसम्राडिति बिरुदेन समग्रेऽपि जिनशासने प्रसिद्धाः समभूवन् । तैः परमगुरुप्रवरैः सकलविद्वज्जनचेतश्चमत्कारिवैदुष्यविभूषितैः निजाप्रतिमाद्भुततमसमाचरणेनोपदेशदानादिना च जिनशासनस्य सप्तक्षेत्री नवपल्लविता विहिता । 218 विविध हैम रचना समुच्चय
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy