________________
ग्रन्थरचनया सार्धं तैः सूरीश्वरैः श्रीसिद्धराजजयसिंहाभिधानभूपालः श्रीकुमारपालाभिधक्षमापालश्च प्रतिबोधितः । तत्र कुमारपालमहीपालस्तु जैनधर्ममङ्गीकृत्य द्वादशवताराधनरूपश्रावकाचारपालनेन परमार्हत इति विरलं बिरुदमपि प्राप्तवान् । अपि च स हि श्रीहेमचन्द्राचार्यगुरुवरोपदेशेन स्वीयाष्टादशदेशेषु अमारि (जीवहिंसानिवृत्ति) प्रवर्तितवान् ।
अधुना बिहार-बङ्गादिदेशापेक्षया गुर्जरमरुधरादिदेशेषु यद् प्रवराचारविचारवैशा दरीदृश्यते तत्र हेतुः श्रीकुमारपालनृपतेः समुचिता अहिंसा प्रधाना राज्यव्यवस्थैव । न ह्यत्र विषये केषामपि वैमत्यम् ।
प्रान्ते - श्रीहेमचन्द्राचार्यभगवद्विहितभूपालप्रतिबोधमुपवर्ण्य केनचित् कविना विहितां स्तुति-मुल्लिख्य विरमामि
सन्त्यन्ये कवितावितानरसिकास्ते भूरयः सूरयः, क्ष्मापस्तु प्रतिबोध्यते यदि परं श्रीहेमसूरेगिरा । उन्मीलन्ति महामहांस्यपि परे लक्षाणि ऋक्षाणि वै, नो राकाशशिना विना बत भवत्युज्जागरः सागरः ॥ इति
कलिकालसर्वज्ञ सूरीश्वराणां प्रशस्तं जीवनम्
213