SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ ( १. कलिकालसर्वज्ञ सूरीश्वराणां प्रशस्तं जीवनम् ) -पूज्याचार्यदेवसूरिशिष्यः विजयहेमचन्द्रसूरिः कलिकालसर्वज्ञेत्यप्रतिमबिरुदेन जगति समस्ते विशेषतश्च जैनशासने प्रख्यातिमन्तः श्रीहेमचन्द्राभिधानाः सूरीश्वरा आहेतशासनस्य बाढं प्रभावनाकारकाः सञ्जाताः । तेषां जीवनं कवनञ्च सर्वेषां कृते अत्याश्चर्यकरं विद्यते । पूर्वभवीयप्रबलसंस्कारसम्पत्तिं समादायैव ते हि पूज्या अत्रावतरितवन्तः, कथमन्यथा तादृशि लघुतमे वयसि मतिविभवविराजिताः, प्रबलवैराग्यभावनाभावितान्तःकरणाः दीक्षाग्रहणाय समुत्सुकमानसाश्च स्युः ! जन्म दीक्षाग्रहणं च धंधुकाभिधाने ग्रामे मोढवणिग्ज्ञातीयगुणगौरवशालि-चच्च (चाचिंग)कुले तद्धर्मपत्नी-रत्नकुक्षिणीश्रीचा( पां)हिणीजननीकुक्षौ वि.संवति ११४५ तमे कार्तिकशुक्लपूर्णिमायां समासादितजन्मान एते पूज्यपुरुषा धृतचांगदेवपुण्याभिधाना बाल्यकालादेव विशिष्टक्षयोपशमशालिनो निजापूर्वबुद्धिचातुर्यचमत्कृतविचक्षणचेतस आसन् । समवयस्कसहाध्यायिबालकेषु सर्वथाऽनन्यसदृशा ह्येते दर्शनमात्रादेव सर्वेषां परमप्रीतिकरा भृशमाह्लादजनकाश्चाऽभूवन् । कलिकालसर्वज्ञ सूरीश्वराणां प्रशस्तं जीवनम् 211
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy