SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीराणकपुरमण्डनश्रीऋषभदेवस्वामिने नमो नमः ॥ ॥ श्री गौतमस्वामिने नमः ॥ _ नमो नमः श्रीगुरुनेमिसूरये २९. कीर्तिकल्लोलकाव्यम् । वाग्देवी यस्य वाचं श्रयति सुरतरुः पुष्पवृष्टिं विधत्ते, तूच्चैर्धत्तेऽनुरागादविरपि सकलम्मण्डलम्भाभिरारात् । देवैस्संपूज्यमानन्नुतितिविततञ्चामरैर्वीज्यमानं, शस्तन्तं राणकस्थञ्जिनवरमनिशं स्तौमि भक्त्याऽऽदिनाथम् ॥१॥ मेवाडे राजते यो गुणगणनिलयो हर्वली शैलराजो, नात्यन्ते दूरदेशे विलसति नगरं राणकाख्यं हि तस्य । नित्यं शब्दायमाना प्रवहति शमदा निम्नगा तस्य पार्वे, आसीत्पूर्वे गृहस्थाऽऽलयसमुदयो निर्जनं विद्यतेऽद्य ॥२॥ स्त्रग्धराच्छन्दः सौधङ्किङ्किमु नन्दनङ्किमलका दृष्ट्रवाऽभ्रमन्मे मनः, आयातम्बहुधा ततं भुविगतङ्कान्तारवर्त्मस्थितम् । भक्ता यान्तु यदीहितं हि सफलङ्कर्तुं मनो वर्धते, गान्धर्वन्नगरन्तदेकभवनं पुण्यात्मभिर्लभ्यते ॥३॥ शार्दूलविक्रीडितं वृत्तम् विविध हैम रचना समुच्चय 172
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy