SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ 130 को नाम जगति शक्तो, मृत्युमुखाद् रक्षितुं जनं स्वीयम् ? | श्रीतीर्थकृत्समा अपि तं नूनं नाऽतिवर्तन्ते ॥ ४६ ॥ " पूज्या गुरवस्तु पुनः, संयममाराध्य निर्मलं सुचिरम् । उपदिश्य भव्यलोकान्, निजजननं सार्थकं चक्रुः ॥४७॥ अथ कार्यमेकमेवा - ऽस्माकं न्यायादिशास्त्रमभ्यस्य । प्राप्याऽतुलवैदुष्यं तत्पट्टोद्भासनं कुर्मः ॥४८॥ इति तद्वचोऽपनीत - स्वगुरुवियोगार्तिराप्य हृद्स्वास्थ्यम् । संयमयोगे नित्यं, नियमितचित्तोऽभवन् मुदितः ॥ ४९ ॥ लघुसंयमपर्याये, वयसि लघौ गुरुवरं विना वसनम् । प्राप्तं तदपि न धैर्यं, जहौ स्वभाग्यैकविश्वस्तः ॥५०॥ पञ्चमः सर्गः समाप्तः । ( सत्यानुकूल्ये अग्रे रचना विधास्यते ) विविध हैम रचना समुच्चय
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy