SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ( चतुर्थः सर्गः ) अथ स्वहस्तादृतसाधुवेषो, वैराग्यरङ्गोल्लसितात्मवृत्तिः । श्रीवृद्धिचन्द्राह्वगुरोः प्रसादं, वाञ्छन्नुपेयाय तदंह्निमूले ॥१॥ ( उपजाति: ) प्रसाददृष्ट्या गुरुणा स दृष्टः, सम्भाषितश्चाऽपि सुहृद्यवाचा । तदीयसत्सव्यकराब्जनिर्यद्वासप्रचूर्णाञ्चितशीर्षकोऽभूत् ॥२॥ चारित्रमार्गे स्वसुतं विदित्वा, सम्प्रस्थितं चन्द्रयुतः स लक्ष्मीः । न्याय्यं विदन् तद्धृदयेन किन्तु, जज्ञे यियासुर्व्यवहारतो हि ॥३॥ इच्छन्न शक्नोति जनो विधातुं, करोति चेच्छारहितोऽपि कृत्यम् । यतः स विश्वेऽतुलितप्रभावो, राजेव भाति व्यवहार एव ॥४॥ तमेव संश्रित्य युतो हि लक्ष्मीचन्द्रः स्त्रिया भावपुरे समागात् । न न्याययुक्ता निजसूनुदीक्षेत्येवं जगौ न्यायगृहं प्रविश्य ॥५॥ न्यायैकनिष्ठो मगनाभिधानस्तत्राऽभवद् विश्वसनीयवृत्तः । श्रीनेमिपार्श्वे स्वयमभ्युपेत्य, परीक्षयामास बहुप्रकारैः ॥६॥ श्रीनेमिसौभाग्यमहाकाव्यम् (चतुर्थः सर्गः ) 119
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy