SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ यः श्रीपालचरित्रं, शतशः स्तवनानि सिद्धिगिरिराजः । व्यतनोच्चाऽऽनन्दघन-स्तवनचतुर्विंशतिस्तबकम् ॥११७॥ (युग्मम्) श्रीउदयरत्ननामा, षष्ठोऽभूत्तेषु वाचकप्रष्ठः । यः कृत्वाऽनेककृती-र्बहूपकृतिमातनोल्लोके ॥११८॥ गूर्जरगिरि च 'शलोका'-रूपं विदितं ततान यः काव्यम् । श्रीनेमि-शालि-भरत-प्रमुखानुपमेयचरिताढ्यम् ॥११९॥ (युग्मम्) श्रीमत्कृपाविजयबुध-शिष्यः श्रीमेघविजयनामाऽभूत् । वाचकवर्यो यत्कृत-कृतयः सम्प्रीणयन्ति ज्ञान् ॥१२०॥ देवानन्दाभ्युदयं, दिग्विजयं शान्तिनाथकाव्यञ्च । चन्द्रप्रभाभिधानं, व्याकरणं प्रक्रियाबद्धम् ॥१२१॥ मेघमहोदय-युक्ति-प्रबोधसंज्ञौ तथा महाग्रन्थौ । रचयाञ्चकार धीमानपि काव्यं सप्तसन्धानम् ॥१२२॥(त्रिभिर्विशेषकम्) गणिदेवचन्द्रनामा जातः श्रीदीपचन्द्रगणिशिष्यः । अपि खरतरगच्छीयः, समदृष्टिः सर्वगच्छेषु ॥१२३॥ नयचक्रागमसारी, स्तवनानि, ध्यानदीपिकाप्रमुखान् । रचयित्वा यो ग्रन्थान्, कृतवानुपकारमतिविपुलम् ॥१२४॥ काले तस्मिन् धर्म-प्रभावका आसतैतदष्टमुखाः ये निजशक्त्या शासन-मुच्चैः प्राभावयज्जैनम् ॥१२५॥ (त्रिभिर्विशेषकम्) कर्पूरविजयनामाऽभूदथ गणिसत्यविजयपट्टधरः । श्रीप्रभसूरिय॑स्मै, पन्न्यासपदं ददौ समहम् ॥१२६॥ तत्पट्टाम्बरभानुर्जातः श्रीमान् क्षमाविजयनामा । प्रातिष्ठिपत्पृथिव्यां, यो जिनबिम्बानि सप्तशतम् ॥१२७॥ श्रीमज्जिनविजयाह्वः, पन्यासस्तदीयपट्टभूषोऽभूत् । स्तवनसुमैर्यद्ग्रथितै-र्भव्या जिनमर्चयन्त्यधुना ॥१२८॥ श्रीनेमिसौभाग्यमहाकाव्यम् (प्रथमः सर्गः) 101
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy