SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ चतुर्दशपापस्थानकालोचना चतुर्दशं परं पाप-स्थानं पैशुन्यमीरितम् । परोक्षे परदोषाणा-मुक्तिः पैशुन्यमुच्यते ॥७३॥ सत्कृतोऽपि खलः कामं, पिशुनत्वं जहाति न । ततस्तु श्वा वरो भक्ष्य-मात्रेण वशमेति यः ७४॥ पयःप्रक्षालितः काको, यथा याति न शुभ्रताम् । नैकशिक्षोक्तिभिस्तद्वद्, दुष्टो न सुजनो भवेत् ॥५॥ निम्बोऽमृतेन संसिक्तो, माधुर्यं जातु प्राप्नुयात् । न खलो वचनैः स्निग्धैः, सौजन्यं मानितो मुहुः ॥७॥ पैशुन्याचरणैर्बद्धं, यत्पापं पूर्वजन्मसु । मनसा कर्मणा वाचा, तत्सर्वं विदधे मृषा ॥७७॥ पञ्चदशपापस्थानकालोचना समाख्यातं पञ्चदशं, रत्यरत्याख्यकं परम् । पापस्थानं यतश्चैते, संयुक्ते तिष्ठतः सदा ॥७८॥ किञ्चिद्धेतू रतिर्यत्रा-ऽरतिस्तत्राऽन्यहेतुका । स्यादेवेति मतं पाप-स्थानमेकमिदं श्रुते ॥७९॥ रतिर्वाऽरतिरित्येषा, केवला चित्तकल्पना । विपर्ययोऽनयोर्लोके, दृश्येत कथमन्यथा ॥८॥ रत्यरत्यनलं प्राप्य, यदाऽयं चित्तपारदः । . नश्येन्नहि तदाऽनन्त-सौख्यस्वर्णाय जायते ॥८१॥ रत्याऽरत्याऽपि यत्पूर्वं, पापं बद्धं मया प्रभो !! मनसा कर्मणा वाचा, तन्मिथ्या विदधे समम् ॥८२॥ 84 विविध हैम रचना समुच्चय
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy