________________
८२
एतेन -
-
जले जीवाः स्थले जीवाः, आकाशे जीवमालिनि । जीवमालाकुले लोके, कथं भिक्षुरहिंसकः ||१|| [] इति प्रत्युक्तम् ब्रवीमीति पूर्ववत् ।।
दशवैकालिकं- टीकात्रिकयुतम्
[इति तिलकाचार्यविरचितटीकायां चतुर्थमध्ययनम् ]
(स.) इति पूर्वप्रकारेणैतां षड्जीवनिकायिकामधिकृताध्ययनप्रतिपादितार्थरूपां न विराधयेदिति योगः, क इत्याह- सम्यग्दृष्टिर्जीवः सूत्रश्रद्धावान् किंभूतः ? सदा यतः सर्वकालं यतनापरः किमित्याह - दुर्लभं लब्ध्वा श्रामण्यं साधुत्वं षड्जीवनिकायसंरक्षणैकरूपं कर्मणा मनोवाक्- कायक्रियया प्रमादेन न विराधयेत्. अप्रमत्तस्य तु यद्यपि कथञ्चिद् द्रव्यविराधना स्यात् तथाप्यसौ न विराधकः एतेन
"जले जीवाः स्थले जीवा आकाशे जीवमालिनि ।
जीवमालाकुले लोके कथं भिक्षुरहिंसकः " १.
इत्येतत्प्रत्युक्तं तथा सूक्ष्मजीवानां विराधनाया अभावाच्च ब्रवीमीति पूर्ववत् ।।२९।। इति श्रीसमयसुन्दरोपाध्यायविरचितायां दशवैकालिकवृत्तौ षड्जीवनिकाध्ययनं समाप्तम् । श्रीरस्तु ।
(सु.) महार्था षड्जीवनिकायिकेति विधिनोपसंहरन्नाह - 'इच्चेयं ' इत्यादि, इत्येतां षड्जीवनिकायिकामधिकृताध्ययनप्रतिपादितार्थरूपां न विराधयेदितियोगः । सम्यग्दृष्टिःजीवस्तत्त्व श्रद्धानवान् सदा यतः सर्वकालं प्रयत्नपरः सन् किमित्याह- 'दुर्लभं लब्ध्वा श्रामण्यं' दुष्प्राप्यं प्राप्य श्रमणभावं - षड्जीवनिकायसंरक्षणैकरूपं कर्म्मणा मनोवाक्कायक्रियया प्रमादेन न विराधयेत् - न खण्डयेत्, अप्रमत्तस्य तु द्रव्यविराधना यद्यपि कथंचिद् भवति, तथाप्यसावविराधक एवेत्यर्थः । एतेन
"जले जीवाः, स्थले जीवा, आकाशे जीवमालिनि । जीवमालाकुले लोके, कथं भिक्षुरहिंसकः ? ||१।।" इत्येतत्प्रत्युक्तं, तथा सूक्ष्माणां विराधनाभावाच्च ।।२९।।
ब्रवीमि इति पूर्ववत् ।। सुमति० वृत्तौ व्याख्यातं षड्जीवनिकायाध्ययनम् । इति चतुर्थं षड्जीवनिकायाध्ययनं समाप्तम् ४ ।।