SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ७० अजयं चिट्टमाणो य, पाणभूयाइं हिंसई । बंधई पावयं कम्मं, तं से होइ कडुयं फलं ।।४.२।। दशवैकालिकं-टीकात्रिकयुतम् अजयं आसमाणो य, पाणभूयाइं हिंसई । बंधई पावयं कम्मं तं से होइ कडुयं फलं ।।४.३ । । अजयं सयमाणो य, पाणभूयाइं हिंसई । बंधई पावयं कम्मं, तं से होइ कडुयं फलं ।।४.४।। अजयं भुंजमाणो य, पाणभूयाइं हिंसई । बंधई पावयं कम्मं तं से होइ कडुयं फलं ।।४.५।। अजयं भासमाणो य, पाणभूयाई हिंसई । बंधई पावयं कम्मं तं से होइ कडुयं फलं ।।४.६।। (ति.) उक्ता यतना, साम्प्रतं 'उपदेश' माह-अयतमिति क्रियाविशेषणम्, अयतनया ईर्यासमितिं विना, चरन् - गच्छन् । प्राणभूतानि हिनस्ति । प्राणा द्वि-त्रि- चतुः प्रोक्ता, भूतास्तु तरवः स्मृता । जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा इतीरिताः ||१|| [ ] प्राणभूतानीति बहुवचनात् सर्वानप्येतान् प्रमादानुपयोगाभ्यां व्यापादयति । तानि हिंसन् बध्नाति पापकं कर्म । तत् से-तस्य भवति, कटुकफलम् - दारुणविपाकफलं, कटुकानुस्वारोऽलाक्षणिकः । अयतं तिष्ठन् - अस्थाने । अयतम् आसीनः आकुञ्चनादि कुर्वन् । अयतं स्वपन्-अप्रत्युपेक्ष्य परिवर्तनादिना । अयतं भुञ्जानः- निःकारणं प्रणीतादि सराग-द्वेषं वा । अयतं भाषमाणः - गृहस्थभाषया निष्ठुरम्, अन्तरभाषादिना वा । शेषं सर्वगाथासु पूर्ववत् । · I (स.) साम्प्रतमुपदेशमाह - अजयं - इति- अयतं चरन् यत्नं विना गच्छन्निर्यासमितिमुल्लङ्घ्य, किमित्याह–प्राणिभूतानि हिनस्ति, प्राणिनो द्वीन्द्रियादयः, भूतानि एकेन्द्रियास्तानि हिनस्ति प्रमादेनानाभोगेन च व्यापादयति, तानि हिंसन् बध्नाति
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy