SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ दशवैकालिकं-टीकात्रिकयुतम् आस्फोटयन्तं वा प्रस्फोटयन्तं वा आतापयन्तं वा प्रतापयन्तं वा न समनुजानीयादित्यादि पूर्ववत् |११| सेभिक्खू वा भिक्खुणी वा संजय - विरय- पडिहय-पच्चक्खायपावकम्मे दिया वा राउ वा एगउ वा परिसागउ वा सुत्ते वा जागरमाणे वा । (ति.) तथा [से... इत्यादि ] प्राग्वत् । (स) (पूर्ववत् ] (सु.) से भिक्खू वा इत्यादि, यावत् जागरमाणे वत्ति पूर्ववदेव, से अगणि वा, इंगालं वा, मुमुरं वा, अच्चिं वा, जालं वा, अलायं वा सुद्धागणि वा, उक्कं वा । ६४ (ति.) इहायःपिण्डानुगतः अग्निः । ज्वालारहितः - अङ्गारः । विरलाग्निकणो भस्म-म(मु)र्मुरः । मूलाग्निविच्छिन्ना ज्वाला-अर्चिः । अग्निप्रतिबद्धा तु ज्वाला । अलातम् उल्मुकम्। शुद्धाग्निः- निरिन्धनः । उल्का-गगनाग्निः । एतान् - (स.) से इति - इह - अग्निं लोहपिण्डानुगतं वा ज्वालारहितम्, -अङ्गारं विरलाग्निकणरूपं, मुर्मुरं मूलाग्निविच्छिन्नां ज्वालां, अर्चिर्मूलाग्निप्रतिबद्धां ज्वालाम्अलातम्-उल्मुकम्, इन्धनरहितं शुद्धाग्निं, गगनाग्निरूपामुल्काम् । (सु.) से अगणिं वा' इत्यादि, तद्यथा-अग्निं वा अङ्गारं वा मुर्मुरं वा अर्च्चिर्वा ज्वालां वा अलातं वा शुद्धाग्निं वा उल्कां वा, इह-अयस् - पिण्डानुगतोऽग्निः, ज्वालारहितोऽङ्गारः, विरलाग्निकणं भस्म मुर्मुरः, मूलाग्निविच्छिन्ना ज्वाला अर्च्चिः, प्रतिबद्धा ज्वाला, अलातं उल्मुकं, निरिन्धनः शुद्धोऽग्निः, उल्का गगनाग्निः, न जिज्जा, न घट्टिज्जा, न उज्जालिज्जा, न निव्वाविज्जा, अन्नं न उंजाविज्जा, न घट्टाविज्जा, न उज्जालाविज्जा, न निव्वाविज्जा, अन्नं उजंतं वा, घट्टितं वा, उज्जालितं वा, निव्वावितं वा, न समणुजाणमि, जावज्जीवाए तिविहं तिविहेणं, मणेणं, वायाए, कायेणं, न करेमि, न कारवेमि, करंतं पि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि ।। ३ ।। ( सू० ४.१२) (ति.) नोत्सिञ्चेत्, न घट्टयेत्, न उज्ज्वालयेत्, न निर्वापयेत्-विध्यापयेदित्यर्थः । कारणानुमतिरूपं पदाष्टकं स्पष्टम् । न समणुजाणामि इत्यादि प्राग्वत् ।। सू.१२ । ।
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy