SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ चतुर्थम् अध्ययनम् ४७ भवतीति शेषः. अभिक्रमणमभिक्रान्तं प्रज्ञापकं प्रत्यभिमुखं क्रमणमित्यर्थः, एवं प्रतिक्रान्तं प्रज्ञापनात् प्रतीपं क्रमणमिति भावः सङ्कुचनं सङ्कुचितं गात्रसंकोचकरणं, प्रसारणं गात्रविततकरणं, रवणं, रुतं शब्दकरणं, भ्रमणं भ्रान्तमितस्ततश्च गमनं त्रसनं त्रस्तं दुःखोद्वेजनं, पलायितं कुतश्चिन्नाशनं, तथा आगतेः कुतश्चित् क्वचिद् गतेश्च कुतश्चित् क्वचिदेव विन्नाया इति विज्ञातारः नन्वभिक्रान्त-प्रतिक्रान्ताभ्यामागति-गत्योर्न कश्चिद्भेदः. तदा किमर्थं भेदेनाभिधानमुच्यत ? विज्ञानविशेषज्ञापनार्थं. किमुक्तं भवति ? य एवं विजानन्ति यथा वयमभिक्रमामः प्रतिक्रमामो वा त एवात्र त्रसाः न तु वृतिं प्रत्यभिक्रमणवन्तोऽपि वल्ल्यादय इति. नन्वेवमपि द्वीन्द्रियादीनां त्रसत्वप्रसङ्गः अभिक्रमण-प्रतिक्रमण-भावेऽप्येवंविधज्ञानस्याभावान्नैवमेतत्. हेतुसंज्ञाऽवगतेर्बुद्धिपूर्वकमिव छायात उष्णमुष्णाद्वा छायां प्रतिक्रमणादिभावात्, न चैवं वल्ल्यादीनामभिक्रमणेऽप्योघसंज्ञायाः प्रवृत्तेः. तत्र अथाधिकारागतत्रसभेदानाह - ये च कीट-पतङ्गा इत्यत्र कीटाः कृमयः, एकग्रहणे तज्जातीयानामपि ग्रहणमिति द्वीन्द्रियाः शङ्खादयोऽपि गृह्यन्ते. पतङ्गाः शलभा अत्रापि पूर्ववच्चतुरिन्द्रिया भ्रमरादयोऽपि गृह्यन्ते. तथा यच्च कुन्थु-पिपीलिका इत्यनेन त्रीन्द्रियाः सर्वेऽपि गृह्यन्ते, अतएवाह सर्वे द्वीन्द्रियाः कृम्यादयः, सर्वे त्रीन्द्रिया कुन्थ्वादयः सर्वे चतुरिन्द्रियाः पतङ्गादयः अत्राह - ननु ये च कीटपतङ्गा इत्यादौ उद्देशव्यत्ययः कथम् ? उच्यते - विचित्रत्वात् सूत्रगतेः, अतंन्त्रः सूत्रक्रम इति ज्ञापनार्थं. सर्वे पञ्चेन्द्रियाः सामान्यतो विशेषतः, पुनः सर्वे तिर्यग्योनयो गवादयः, सर्वे नारका रत्नप्रभानारकादि-भेदभिन्नाः, सर्वे मनुजाः कर्मभूमिजादयः सर्वे देवा भवनवास्यादयः, सर्वशब्दोऽत्रान्य-समस्तदेवभेदानां सत्त्वख्यापनार्थः सर्व एवैते त्रसाः, न त्वेकेन्द्रिया इव त्रसाः स्थावराश्चेति. उक्तं च- 'पृथिव्यम्बुवनस्पतयः स्थावराः, तेजोवायू द्वीन्द्रियादयश्च त्रसाः' [तत्त्वार्थ. अध्य. २, सूत्र १३,१४] इति सर्वेऽपि प्राणिनः परमधर्माण इति-सर्व एते प्राणिनो द्वीन्द्रियादयः पृथिव्यादयश्च परमधर्माणः परमं सुखं तद्धर्माणो दु:खद्वेषिणः सुखाभिलाषिण इत्यर्थः. यतः कारणादेवं ततो दुःखोदयादिपरिहारवाञ्छया एतेषां षण्णां जीवनिकायानां नैव स्वयं दण्डं समारभ इति योगः ।। (सु.) एतेषामेव लक्षणमाह - [ जेसिं केसिं यि...] येषां केषाञ्चित् सामान्येनैव प्राणिनां जीवानामभिक्रान्तं भवतीति वाक्यशेषः, अभिक्रमणमभिक्रान्तं, प्रज्ञापकं प्रत्यभिमुखं क्रमणमित्यर्थः एवं प्रतिक्रमणं प्रतिक्रान्तं - प्रज्ञापकात् प्रतीपं क्रमणमिति भावः, सङ्कुचनं सङ्कुचितं - गात्रसङ्कोचकरणं, प्रसारणं प्रसारितं - गात्रविततकरणं, "
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy