SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ४१. चतुर्थम् अध्ययनम् अत्राह पर:-यद्येवं जीवपिण्डरूपा पृथ्वी ततस्तत्रोच्चारादिकरणे साधूनामहिंसकत्वानुपपत्तिः । अत्रोत्तरम्-शस्त्रपरिणता[पृथिवीं] विना पृथ्वी चित्तवती । शस्त्राणि चास्याःअनिला-ऽनल-स्नेहा-ऽऽम्ला-ऽऽलवणादीनि । एवं परिणतपृथ्व्यामुच्चारादिकरणेऽपि साधूनाम-हिंसकत्वम्-इत्यागमः । अनुमानमप्यत्र-सात्मका विद्रुमलवणोपलाद्या, पृथ्वीसमान-जातीयाङ्कुरोत्पत्त्युपलम्भात् भ्रूणमांसाङ्कुरवत् । एवमागमोपपत्तिभ्यां व्यवस्थितं पृथ्वीकायिकानां जीवत्वम् । उक्तं च - आगमश्चोपपत्तिश्च, सम्पूर्ण दृष्टिलक्षणं । 'अतीन्द्रियाणामर्थानां, सद्भावप्रतिपादने ||१|| आगमो ह्याप्तवचन-माप्तं दोषक्षयाद् विदुः । वीतरागोऽनृतं वाक्यं, न ब्रूयाद्धत्वसम्भवात् ।।२।। [ ] एवमप्-तेजो-वायु-वनस्पतिसूत्राण्यापि व्याख्येयानि । अनुमानान्यपि चैवम्-सात्मकं जलं भूमिखननाऽभ्रतलतः स्वभावेन सम्भवात्, दर्दुरकाोहिकादिवत् । सात्मकोऽग्निः, आहारेण वृद्धिदर्शनात्, बालवत् । सात्मकः पवनः, अपराप्रेरिततिर्यग्-नियमितदिग्गमनात्, गोवत् । सात्मकास्तरवः, सर्वत्वगपहरणे मरणात्, गर्दभादिवत् । (स.) विप्रतिपत्ति निरासार्थं पुनराह – 'पुढवी चित्तमंतमक्खाया' पृथिवी चित्तं च जीवलक्षणं, तदस्या अस्तीति चित्तवती सजीवेत्यर्थः 'पाठान्तरं वा -'पुढवी चित्तमत्तमक्खाया,' अत्र मात्रशब्दः स्तोकवाची, यथा सर्षपत्रिभागमात्रं, पृथिवी चित्तमात्रा स्तोकचित्ता इत्यर्थः. तथा च प्रबलमोहोदयात् सर्वजघन्यं चैतन्यमेकेन्द्रियाणां, तदधिकं द्वीन्द्रियाणामिति. आख्याता सर्वज्ञेन कथिता, किंविशिष्टा पृथिवी ? अनेकजीवा अनेके जीवा यस्यां सा अनेकजीवा, न पुनरेकजीवा, यथा-वैदिकानां 'पृथ्वी देवता' इत्येवमादिवचनप्रामाण्यादिति. तथानेकजीवापि कैश्चिदेकभूतात्मापेक्षया मन्यते. यदाहुरेके "एक एव हि भूतात्मा, भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् १. १. केवलिगम्यानामर्थानाम १०टि. ।। २.०ङकी.७.९ ।।
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy