SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ . ३९५ प्रशस्ति राजीमतीति तेषां, भगिनी भग्नातिमात्रमोहबला । यन्मानसे मरालीलीलायितमातनोति कृपा ||१२|| आर्या पाहिणिः पासणागस्य, गेहिनी गुणमन्दिरम् । आमश्रीरामणागस्य, दाराश्चाचारपारगाः ||१३।। शान्ता शान्तिकुमारस्य पाल्हुकेति सधर्मिणी । कलाकलापसम्पन्ना मूर्तिश्चान्द्रमसी यथा ।।१४।। सुतवती दुहिताद्वयमादिमा, सलखणस्य च सूहवगेहिनी । अभिधया प्रथमाऽजनि छाहिणीः, समपरा त्वपरा ननु रूपिणिः ।।१५।। द्रुतविलम्बितम् द्वितीया प्रेयसी तस्य, सहदेविरजीजनत् । वोढारं ललितादेव्याः, पासवीरं तनूद्भवम् ।।१६ ।। धनदेवस्य च दयिता, दाहिणिनाम्नी सुतत्रयमसूत । धर्मार्थकामनाम्नः पुरुषार्थांस्त्रीन् क्रिया यद्वत् ।।१७।। आर्या नेमाकः प्रथमस्तेषु, प्रथमो धर्मकर्मणि । द्वितीयोऽप्यद्वितीयोऽस्ति, क्षमी लक्ष्मीधराभिधः ||१८ ।। तार्तीयीकः सुकृतद्रुमालवालः पुनः सहजपालः | एषां धर्मंकरसा स्वसाऽथ माल्हेऽभिधानाऽस्ति ।।१९।। आर्या नागमतेति कलत्रं नेमाकस्यास्ति निर्मलचरित्रम् । लक्ष्मीधरस्य दयिता लक्ष्मीः सकलजन्तुहिता ।।२०।। आर्या सीतेव विमलशीला, सीतादेवीति सहजपालस्य । विनयालङ्कृतहृदया, दयाविलासान्विता दयिता ।।२१।। आर्या अङ्गजाः पासणागस्य, परोपकरणोल्बणाः । सम्भवो धनसिंहश्चासपालश्चेति सन्त्यमी ।।२२।।
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy