SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ २ चूलिका - विविक्तचर्या ३८९ पश्येत् अनागतं न प्रतिबन्धं कुर्यात् - आगामिकालविषयं नासंयमप्रतिबन्धं करोति । ।चू.२.१३ ।। जत्थेव पासे कइ दुप्पउत्तं, कायेण वाया अदु माणसेणं । तत्थेव धीरो पडिसाहरिज्जा, ओइन्नो खिप्पमिव खलीणं ।।चू.२.१४।। (ति.) कथम् ? - इत्याह-यत्रैव पश्येत् क्वचित् - संयमस्थाने धर्मोपधिप्रेक्षणादौ । दुःप्रयुक्तम्-दुर्व्यवस्थितात्मानम् । केन ? कायेन, वाचा अथ मानसेन । तत्रैवसंयमस्थानम् । धीरः प्रतिसंहरेत् - सम्यग् विधिना प्रतिपद्येत । यथा जात्यादिभिराकीर्णःजात्योऽश्वः । क्षिप्रमेव खलीनम्- कविकं प्रतिपद्यते एवं साधुदुःप्रयुक्तत्वत्यागेन खलिनकल्पं सम्यग् विधिं प्रतिपद्यते । । चू.२.१४।। (स.) कथं ?-इत्याह-जत्थेव ' इति - साधुर्यत्रैव क्वचित् संयमस्थानावसरे धर्मोपधिप्रत्युपेक्षणादौ, दुष्प्रयुक्तं दुर्व्यवस्थितमात्मानमिति गम्यते, पश्येत् पश्यत्युक्तवत् परमात्मदर्शनद्वारेण, केन ? - इत्याह- कायेन, वाचा, अथ मानसेन मन एव मानसं, करणत्रयेणेत्यर्थः, तत्रैव तस्मिन्नेव संयमस्थाने, धीरो बुद्धिमान्, प्रतिसंहरेत् प्रतिसंहरति, यः स्वात्मानं सम्यग् विधिं प्रतिपद्यत इत्यर्थः, अत्र दृष्टान्तमाह-यथा जवादिभिर्गुणैराकीर्णो व्याप्तो जात्योऽश्व इति गम्यते, असाधारणविशेषणात् तच्चेदं - क्षिप्रमिव खलिनं शीघ्रं, कविकमिव, यथा जात्योऽश्वो नियमितगमननिमित्तं शीघ्रं खलिनं प्रतिपद्यत एवं यो दुष्प्रयोगत्यागेन खलिनकल्पं सम्यग्विधिं एतावतांशेन दृष्टान्तः. ।। चू.२.१४ ।। (सु.) कथम् इत्याह-जत्थेव ... इति - यत्रैव पश्यत्युक्तवत्परात्मदर्शनद्वारेण, क्वचित्संयमस्थानावसरे धर्म्मोपधिप्रत्युपेक्षणादौ, दुष्प्रयुक्तं- दुर्व्यवस्थितमात्मानमिति गम्यते, केनेत्याह-कायेन वाचा, अथ मानसेन-मन एव मानसं करणत्रयेणेत्यर्थः, तत्रैवतस्मिन्नेव संयमस्थानावसरे धीरो-बुद्धिमान्, प्रतिसंहरेत्-प्रतिसंहरति य आत्मानं, सम्यग्विधिं प्रतिपद्यत इत्यर्थ, निदर्शनमाह - आकीर्णो जवादिभिर्गुणैर्जात्योऽश्व इति गम्यते, असाधारणविशेषणात् तच्चेदं - क्षिप्रमिव - शीघ्रमेव खलिनं - कविकमिव यथा जात्योऽश्वो नियमितगमननिमित्तं शीघ्रं खलिनं प्रतिपद्यते, एवं यो दुष्प्रयोगपरित्यागेन खलिनकल्पं सम्यग्विधिं एतावताऽंशेन दृष्टान्त इति ।।चू.२.१४।। , - १. आइन्नओ खिप्पमिव क्खलीणं- इत्यन्यत्र मुद्रितम् । २. अश्वमुखस्थम् १० टि. ।।
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy