SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ तृतीयम् अध्ययनम् २५ राढार्थं 'कीदृशो वाऽहम् ' इत्यादिरूपः १५, देहप्रलोकनं च - आदर्शादौ, अनाचरितं १६, दोषाश्च सन्निधिप्रभृतिषु परिग्रहप्राणातिपातादयः स्वधियैव वाच्या इति ।।३.३।। अट्ठावर य नालीय, छत्तस्स य धारणट्ठाए । तेगिच्छं 'पाहणा पाए, समारंभं च जोइणो ।। ३.४।। (ति.) तथा–अष्टापदम्-सारिद्यूतम्, अर्थपदं वा गृहिणामर्थार्जनाय निमित्तादिकथनम्। नालिका नालचैमिति प्रसिद्धं द्यूतम्, आस्तामान्धिकादि । छत्रस्य च धारणाआत्मनः परस्य वा अर्थाय । आगाढग्लानादित्वं मुक्त्वा चैकित्स्यम् । उपानहौनिःकारणं पादयोः । समारम्भश्च । ज्योतिषः - अग्नेः । एषु च दोषाः प्रतीता एव ।।३.४।। (स.) किञ्च - अट्ठावय इति - अष्टापदमिति, अष्टापदं द्यूतम्, अर्थपदं वा गृहस्थमधिकृत्य निमित्तादि-विषयमनाचरितं, तथा नालिका चेति द्यूतविशेषलक्षणा, यत्र मा भूत् कलयान्यथा पाशकपातनमिति नालिकया पात्यन्त इति, इयं चानाचरितं. छत्रस्य धारणम्, आत्मानं परं वा प्रति अनर्थायेति. आगाढग्लानाद्यालम्बनं मुक्त्वानाचरितं [धारणट्ठाए - अत्र ] प्राकृतशैल्यात्रानुस्वारलोपः, अकार-णकारलोपौ च द्रष्टव्यौ, तथा श्रुतिप्रामाण्यादिति. 'तेगिच्छं ति' चिकित्साया भावश्चैकित्स्यं व्याधिप्रतिक्रियारूपमनाचरितम् उपानहौ पादयोरनाचरिते, पादयोरिति साभिप्रायकं, न त्वापत्कल्पपरिहारार्थमुपग्रहधारणेन. समारम्भश्च समारम्भणं ज्योतिषो वह्नेः दोषाश्चाष्टापदादीनां सुगमा एवेति ।।३.४।। (सु.) किञ्च - 'अट्ठावए' इति, अष्टापदं चेत्यष्टापदं द्यूतं, अर्थपदं वा गृहस्थमधिकृत्य निमित्तादिविषयमनाचरितं १७ तथा 'नालिका चेति द्यूतविशेषलक्षणा, यत्र मा भूत् कलयाऽन्यथा पाशकपातनमिति नालिकया पात्यन्त इति, इयं चानाचरिता १८, अष्टापदेन सामान्यतो द्यूतग्रहणे सत्यप्यभिनिवेशनिबन्धनत्वेन नालिकायाः प्राधान्यख्यापनार्थं नालिकाग्रहणं, अष्टापदद्यूतविशेषपक्षे चोभयोरिति । छत्रस्य च - लोकप्रसिद्धस्य धारणमात्मानं परं वा प्रत्यंनर्थायेति, आगाढग्लानाद्यालंबनं मुक्त्वाऽनाचरितं, प्राकृतशैल्या चात्रानुस्वारलोपोऽकार-नकारलोपौ च द्रष्टव्यौ, तथा श्रुतिप्रामाण्यादिति १९ । 'तेगिच्छं’ति चिकित्साया भावश्चैकित्स्यं व्याधिप्रतिक्रियारूपमनाचरितं २०, उपानहौ पादयोरनाचरिते, १. वाहणो ८ ।। २. ०च्छ. ६ ९.१२, ०त्व १० ।। ३ ०कत्वं ६- १०.१२ ।।
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy