________________
१ चूलिका - रतिवाक्या
एतच्चिन्तनेन साधुना नोत्प्रव्रजितव्यम् एतत् किमित्याह - अस्य तावदित्यात्मनिर्देशे, आत्मनो नारकस्य जन्तोर्नरकप्राप्तस्य पल्योपमं सागरोपमं च क्षीयते, यथा- कर्मप्रत्ययं पूर्णं भवति किमङ्ग पुनर्ममेदं संयमारतिनिष्पन्नं मनोदुःखं तथाविधप्रबलक्लेशवृत्तिरहितमेतत् क्षीयत एव किम्भूतस्यास्य जन्तोः ? दुःखोपनीतस्य सामीप्येन प्राप्तदुःख-क्लेशवृत्तेरेकान्तक्लेशचेष्टितस्य ।। चू.१.१५ । ।
३७१
(सु.) यस्मादेवं, तस्मादुत्पन्नदुःखोपि एतदनुचिन्त्य नोत्प्रव्रजेत् इत्याह-इमस्स...इति, अस्य तावदित्यात्मनिर्देशे, नारकस्य जन्तोः नरकमनुप्राप्तस्येत्यर्थः, दुःखोपनीतस्य-सामीप्येन प्राप्तदुःखस्य, क्लेशवृत्तेरेकान्तक्लेशचेष्टितस्य सतो, नरक एव पल्योपमं क्षीयते सागरोपमं च यथाकर्म्मप्रत्ययं किमङ्ग पुनर्ममेदं संयमारतिनिष्पन्नं मनोदुःखं तथाविधक्लेशधृति (दोष) रहितं ? एतत् क्षीयत एव एतच्चिन्तनेन नोत्प्रव्रजितव्यमिति ।। चू.१.१५।।
न मे चिरं दुक्खमिणं, भविस्सइ, असासया भोगपिवास जंतुणो । न चे सरीरेण इमेण वेसेई, अविस्सई जीवियपज्जवेण मे ।।चू.१.१६।।
I
(ति.) विशेषेणैतदेवाह - न मम चिरम् - प्रभृतकालम् । दुःखमिदम् - संयमारतिलक्षणं भविष्यति । अशाश्वता- प्रायो यौवनकालभाविनी । भोगपिपासा जन्तोर्भोगतृष्णाया । अशाश्वतत्त्वे कारणान्तरमप्येतत् । न चेत् शरीरेणानेन - वृद्धेनापि सता । अपैष्यति । यदि न यास्यति तथापि हे जीव ! किमाकुलस्त्वम् । अपैष्यति जीवितपर्यायेण ममजीवनव्यपगमेन निश्चितं यास्यत्येव - नोत्प्रव्रजति ।।चू.१.१६ ।।
(स.) विशेषेणैतदेवाह - न इति मे मम चिरं प्रभृतकालमिदं दुःखं संयमविषयेSरतिलक्षणं न भविष्यति, किमितीत्याह- प्रायो यौवनकालावस्थायिनी भोगपिपासा विषयतृष्णा जन्तोः प्राणिनोऽशाश्वती, अशाश्वतीत्व एव कारणान्तरमाह - न चेच्छरीरेणानेन विषयतृष्णा अपयास्यति, यदि शरीरेणानेन कारणभूतेन वृद्धस्यापि सतो विषयेच्छा नापयास्यति, तथापि किमाकुलत्वं ? यतोऽपयास्यति जीवितस्यापगमेन मरणेनेत्येवं निश्चितं स्यात्. ।।चू.१.१६ । ।
(सु.) विशेषेणैतदेवाह - न मे... इति, न मम चिरं - प्रभूतकालं दुःखमिदं - संयमारतिलक्षणं १. टीकान्तरे 'अविस्सइ' पाठो मूलत्वेन गृहीतः, विवृतश्च 'अपयास्यति' इति । चूर्णौ 'वियस्सती' पाठः, 'विगच्छिहिति' चूर्णितम्.
૫