SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ दंशवैकालिकं-टीकात्रिकयुतम् ३५४ ततः किं गृहाश्रमेण ́ ?-इति द्वितीयम् ।।२।। (स.) अथ द्वितीयस्थानमाह तथा लघव इत्वरा गृहिणां कामभोगाः, दुःषमायामिति वर्तते, सन्तोऽपि लघवः, तुच्छाः प्रकृत्यैव तुषमुष्टिवदसारा, इत्वरा अल्पकाला, गृहिणां गृहस्थानां कामभोगा मदन- कामप्रधानाः शब्दादयो विषया विपाककटवश्च न देवानामिव विपरीताः, अतः किं गृहाश्रमेण ? - इति सम्प्रत्युपेक्षितव्यमिति द्वितीयं स्थानम् ।।२।। (सु.) तथा लघव इत्वरा गृहिणां कामभोगाः, दुष्षमायामिति वर्त्तते, सन्तोऽपि लघवः-तुच्छाः प्रकृत्यैव तुषमुष्टिवदसाराः, इत्वरा - अल्पकालाः, गृहिणां-गृहस्थानां कामभोगाः-मदन-कामप्रधानाः शब्दादयो विषया विपाककटवश्च, न देवानामिव विपरीताः, अतः किं गृहाश्रमेण ? - इति संप्रत्युपेक्षितव्यमिति द्वितीयं स्थानम् ।।२।। (३) भुज्जो य सायबहुला मणुस्सा । ( ति.) तथा भूयश्च पुनः स्वातिबहुला मनुष्याः सुखेनाऽत्यते- संसाराध्वनि गम्यतेऽनयेति। उणादित्वाद् 'इण' प्रत्यये । स्वातिर्मायाक्रोधादिभ्योऽप्यसावधिका । यया उपार्जिततीर्थ-कृत्कर्मापि मल्लिजीवः स्त्रीत्वं प्रातितः । ततश्च स्वातिबहुलामायाप्रचुरा, मनुष्याः । न कदाचित् परस्परं विश्वासहेतवः, तद्रहितानां च कीदृशं सुखं, भोगार्थं मिथश्चाटुवचनैश्च दारुणतरो मायाबन्धः । तत् किं गृहाश्रमेण ' ? इति तृतीयम् ।।३।। (स.) अथ तृतीयस्थानमाह-तथा भूयश्च शातबहुला मनुष्याः, भुक्तेष्वपि कामभोगेषु पुनरपि सुखाभिलाषिण एव मनुष्याः, अतः किं कामभोगैः ? सम्प्रत्युपेक्षितव्यमिति तृतीयं स्थानम्. ।।३।। (सु.) तथा भूयश्च स्वातिबहुला मनुष्याः दुष्षमायामिति वर्त्तते एव, पुनश्च स्वातिबहुला मायाप्रचुरा मनुष्या इति प्राणिनो, न कदाचित् विश्रम्भहेतवोऽमी, तद्रहितानां च कीदृक् सुखं ?, तथा तद्द्बन्धहेतुत्वेन दारुणतरो बन्ध इति किं गृहाश्रमेण ? - इति, संप्रत्युपेक्षितव्यमिति तृतीयं स्थानम् ३ । पाठान्तरं वा तथा भूयश्च सातबहुला मनुष्याः, भुक्तेष्वपि कामभोगेषु पुनरपि सुखाभिलाषिण एव मनुष्याः, अतः किं कामभोगैः ? इति संप्रत्युपेक्षितव्यमिति तृतीयं स्थानम् ।।३।। (४) इमे य मे दुक्खे न चिरकालोवट्ठाइ भविस्सइ । (ति.) तथा इदं च मे दुःखं- शारीरं मानसं च न चिरकालोपस्थायि भविष्यति ।
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy