________________
३५२
दशवैकालिकं-टीकात्रिकयुतम् यतश्चैवम् ?-अतः सम्यक् प्रत्युपेक्षितव्यानि भवन्ति, किम्भूतेन साधुना ? उत्पन्नदुःखेन, सञ्जात-शीतादिशारीर-स्त्रीनिषद्यादिमानसदुःखेन, पुनः किम्भूतेन ? संयमे पूर्ववर्णितस्वरूपे-ऽरतिसमापन्नचित्तेनो-द्वेगगताभिप्रायेण संयमानिर्विण्णभावेनेत्यर्थः, पुनः किम्भूतेन? अवधानोत्प्रेक्षिणा, अवधानमपसरणं संयमात, उतप्राबल्येन, प्रेक्षितुं शीलं यस्य स तेनावधानोत्प्रेक्षिणोत्प्रव्रजितुकामेनेत्यर्थः, पुनः किम्भूतेन ? अनवधावितेनैव, अनुत्प्रव्रजितेनैव ।
(सु.) अधुनौघतश्चूडे आरभ्येते, अनयोश्चायमभिसम्बन्ध इहानन्तराध्ययने भिक्षुगुणयुक्त एव भिक्षुरुक्तः, स चैवंभूतोऽपि कदाचित्कर्मपरतन्त्रत्वात् कर्मणश्च बलवत्त्वात् सीदेत्, अतस्तत्स्थिरीकरणं कर्तव्यमिति, तदर्थाधिकार एव चूडाद्वयमभिधीयते, तच्चेदंइह खलु भो पव्व...इति, इह खलु भो प्रव्रजितेन इहेति जिनप्रवचने, खलुशब्दोऽवधारणे, स च भिन्नक्रम इति दर्शयिष्यामः, भो इत्यामन्त्रणे, प्रव्रजितेन-साधुना, किंविशिष्टेनेत्याहउत्पन्नदुःखेन-सञ्जातशीतादिशारीर-स्त्रीनिषद्यादि-मानसदुःखेन, संयमे-व्यावर्णितस्वरूपे अरतिसमापन्नचित्तेनोद्वेगगताभिप्रायेण संयमनिर्विण्णभावेनेत्यर्थः, स एव विशेष्यतेअवधावनोत्प्रेक्षिणा-अवधावनं-अपसरणं संयमात्, उप्राबल्येन प्रेक्षितुं शीलं यस्य स तथाविधस्तेन, उत्प्रव्रजितुकामेनेति भावः, अनवधावितेनैव-अनुत्प्रव्रजितेनैव, अमूनि वक्ष्यमाणलक्षणान्यष्टादश स्थानानि सम्यग्-भावसारं सुप्रत्युपेक्षितव्यानिसुष्ठ्वालोचनीयानि भवन्तीति योगः; अवधावितस्य तु प्रत्युपेक्षणं प्रायोऽनर्थकमिति, तान्येव विशेष्यन्ते-हयरश्मि-गजाकुश-पोतपताकाभूतानि-अश्वखलिन-गजाकुशबोहित्थसितपटतुल्यानि, एतदुक्तं भवति-यथा हयादीनामुन्मार्ग-प्रवृत्तिकामानां रश्म्यादयो नियमनहेतवः, तथा एतान्यपि संयमादुन्मार्गप्रवृत्तिकामानां भव्यसत्त्वानामिति, यतश्चैवम ? अतः सम्यक् प्रत्युपेक्षितव्यानि भवन्ति, खलुशब्दोऽवधारणे, योगात् सम्यगेव संप्रत्युपेक्षितव्यानि एवेत्यर्थः ।
तं जहा-हंहो (१) दुस्समाए दुप्पजीवी । (२) लहुसगा इत्तरिया गिहीणं कामभोगा। (३) भुज्जो य सायबहुला मणुस्सा । (४) इमे य मे दुक्खे न चिरकालोवट्ठाइ भविस्सइ । (५) ओमजणपुरक्कारे । (६) वंतस्स पडियाइयणं। (७) अहरगइवासोवसंपया । (८) दुल्लभे य खलु भो गिहीणं धम्मे गिहवासमज्झे वसंताणं । (९)