________________
३४६
दशवैकालिकं-टीकात्रिकयुतम् उवहिम्मि अमुच्छिए अगिद्धे, अनायउंछं पुलनिप्पुला ए । कय-विक्कय-संनिहिओ विरए, सव्वसंगावगए य जे,स भिक्खू ।।१०.१६ ।।
(ति.) तथा-उपधौ-वस्त्रादिरूपे । अमूर्छितः-तत्र मोहत्यागेन । अगृद्धःअनाकाङ्क्षी। अज्ञातोञ्छं चरति, अज्ञातोञ्छमिव अज्ञातोञ्छम-यथा अज्ञातोञ्छम् अल्पं भवति तथा उपधिमप्यगृद्धः, स्तोकं स्तोकं, भावशुद्धं धर्मार्थितया दत्तं गृह्णाति यः सोऽज्ञातोञ्छचारी। तथा पुल-समुच्छ्रये [ ], पुलतीति पुलः, अगृद्धत्वाच्चारित्रे, समुच्छ्रितः, प्राकृतत्वाद्विभक्तिलोपः। निःपुलाकः-संयमासारतापादकदोषरहितः । क्रयविक्रय-सन्निधिभ्यो विरतः । सर्वसङ्गापगतश्च यः । स भिक्षुः ।।१०.१७।।
(स.) पुनराह-उवहिम्मि 'इति-यः साधुरज्ञातोञ्छं चरति, भावशुद्ध स्तोकं स्तोकमित्यर्थः, स भिक्षुः, किम्भूतः साधुः ? उपधौ वस्त्रादिलक्षणे, अमूर्छितस्तद्विषयमोहत्यागेन, पुनः किम्भूतः साधुः ? अगृद्धः प्रतिबन्धाभावेन, पुलकः, पुल समुच्छ्रये [ ], पुलतीति पुलकः, चारित्रगृद्धत्वात् समुच्छ्रितः, पुनः किम्भूतः साधुः? निष्पुलाकः, संयमस्यासारतोत्पादका ये दोषास्तै रहितः, पुनः किम्भूतः साधुः ? क्रयविक्रय-सन्निधिभ्यो विरतः, द्रव्य-भावभेदभिन्न-क्रय-विक्रयपर्युषितस्थापनेभ्यो निवृत्तः, पुनः किम्भूतः साधुः ? सर्वद्रव्य-भावसङ्गरहितः ।।१०.१६ ।।
(सु.) तथा- उवहिम्मि...इति, उपधौ-वस्त्रादिलक्षणे, अमूर्छितः-तद्विषयमोहत्यागेन, अगृद्धः-प्रतिबन्धाभावेन, अज्ञातोञ्छं चरति भावपरिशुद्धं, स्तोकं स्तोकमित्यर्थः, पुलाकनिष्पुलाकः-संयमा-ऽऽसारता-ऽऽपादकदोषरहितः, क्रय-विक्रय-संनिधिभ्यो विरत:द्रव्य-भावभेदभिन्नक्रय-विक्रय-पर्युषितस्थापनेभ्यो निवृत्तः, सर्वसङ्गापगतश्च योऽपगतद्रव्य-भावसङ्गश्च यः, स भिक्षुरिति ।।१०.१६ ।।
अलोलभिक्खू न रसेसु गिद्धे, उंछं चरे जीविय नावकंखे । इडिं च सक्कारणपूयणं च, चए ठियप्पा अणिहे स भिक्खू ।।१०.१७।। (ति.) किञ्च-अलोलः-नाप्राप्तप्रार्थकः, भिक्षुः-साधुः, अलोलश्चासौ भिक्षुश्च अलोलभिक्षुः। न रसेषु । गृद्धः-आसक्तः । उञ्छं चरति ।
१. णाभिकंखे [अन्यत्र पाठभेदः] २. अन्यत्र टीकायां मूले च अलोल इति भिक्खु-इति व्यस्तपादौ.