SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ नवमम् अध्ययनम् ३१३ (स.) अथ विनयफलस्य नाम्ना उपसंहरन्नाह - निद्देस...इति - एवंविधास्ते साधव उत्तमां गतिं सिद्धिं गताः, किं कृत्वा ? कर्म निरवशेषं समस्तं भवोपग्राहिनामकं क्षपयित्वा पुनः किं कृत्वा ? एनमुदधिं प्रत्यक्षोपलभ्यमानं संसारसमुद्रं दुरुत्तारं तीर्त्वा, चरमभवं केवलित्वं च प्राप्येति भावः ब्रवीमीति पूर्ववत् ।।९.२.२३।। इति श्रीदशवैकालिके शब्दार्थवृत्तौ श्रीसमयसुन्दरोपाध्यायविरचितायां विनयसमाध्या-ख्यनवमाध्ययने द्वितीयोद्देशः समाप्तः ।।२।। (सु.) विनयफलाभिधानोपसंहरन्नाह - णिद्दे सवत्ती' इति, निर्देशवर्त्तिनःआज्ञावर्त्तिनः, पुनर्ये गुरूणां - आचार्यादीनां श्रुतार्थधर्म्मा इति प्राकृतशैल्या, श्रुतधर्मार्था गीतार्था इत्यर्थः, विनये कर्त्तव्ये कोविदा - विपश्चितः य इत्थंभूतास्तीर्त्वा, ते महासत्त्वा ओघमेनं-प्रत्यक्षोपलभ्यमानं संसारसमुद्रं दुरुत्तारं तीर्चेव तीर्त्वा चरमभवं केवलित्वं च प्राप्येतिभावः, ततः क्षपयित्वा कर्म निरवशेषं भवोपग्राहिसंज्ञितं गतिमुत्तमां सिद्ध्याख्यां गताः-प्राप्ताः ।।४३८।। इति ब्रवीमीति पूर्ववत् । सुमति वृत्तौ विनयसमाधौ व्याख्यातो द्वितीय उद्देशकः ९-२ ।।
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy