SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ३०२ दशवैकालिकं-टीकात्रिकयुतम् उपलभ्यन्ते सुखमालादलक्षणमेधमाना अनुभवन्त ऋद्धिं प्राप्ता इति विशिष्टभूषणालयभोजनादिभावतः प्राप्तर्द्धयो महायशसो विख्यातसद्गुणाः ।।९.२.६ ।। (स.) एतेष्वेव विनयगुणमाह-तहेव'इति, तथैव एते सुविनीतात्मानो-विनयवन्त आत्मज्ञा औपवाह्या-राजादीनां हया गजा इति पूर्ववत् । एते किम् ?-इत्याहदृश्यन्ते-उपलभ्यन्ते, एव सुख-आलादलक्षणं, एधमाना-अनुभवन्तः शुद्धिं प्राप्ता इति विशिष्टभूषणालयभोजनादिभावतः प्राप्तड़यो महायशसो-विख्यातसद्गुणा इति ।।९.२.६।। तहेव अविणीयप्पा, लोगंसि नरनारिओ | दीसंति दुहमेहंता, छाया ते विगलिंदिया ।।९.२.७।। (ति.) एतदेवाऽविनयफलं मनुष्यान् प्रत्याह-पदत्रयं स्पष्टम् । छागा इव च्छागा:अवज्ञास्पदं, छाता वा दुर्विनयेन छिन्नाङ्गाः । ते विकलेन्द्रिया:-दृक्-कर्ण-नाशाच्छेदतः ।।९.२.७।। (स.) एतदेव विनयाविनयफलं मनुष्यानधिकृत्याह-तहेव'इति-तथैव तिर्यञ्च इवाविनीतात्मानः पूर्ववत्, लोकेऽस्मिन् मनुष्यलोके, नरनार्य इति प्रकटार्थं, दृश्यन्ते दुःखमेधमानाः पूर्ववत्, छाताः कशाघातव्रणाकि तशरीरा विकलेन्द्रिया अपनीतनासिकादीन्द्रियाः, पारदारिकादय इति सूत्रार्थः. ।।९.२.७ ।। (सु.) एतदेव विनयाविनयफलं मनुष्यानधिकृत्याह-तहेव इति, तथैव तिर्यञ्च इव अविनीतात्मान इति पूर्ववत् । लोकेऽस्मिन्-मनुष्यलोके, नरनार्य इति प्रकटार्थं, दृश्यन्ते दुःखमेधमाना इति पूर्ववत्, छारा(ताः)-कसघातव्रणाकितशरीराः, विगलितेन्द्रियाः-अपनीतनासिकादीन्द्रियाः, पारदारिकादय इति ।।४२२।। दंडसत्यापरिज्जुन्ना, असब्भवयणेहिं य । कलुणा विवन्नछायाँ, खुप्पिवासाइपरिगया ।।९.२.८।। १. लोसंसि नरनारिओ | इत्यन्यत्र मुद्रितः पाठभेदः | २. मूलपाठत्वेनात्र 'विगलितेंदिया' इति । ३. अन्यत्र सत्थपरि...। खुप्पिवासपरि...। ४. विवन्न छंदा'इत्यपि मुद्रितः पाठः | वृत्तिश्चात्र 'व्यापन्न 'छन्दसः' इत्यनुरूपा, । चूर्णी 'विवण्णछंदा'
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy