________________
२९४
दशवैकालिकं- टीकात्रिकयुतम्
कायेन शरीरेण तथा गिरा वाचा, 'मस्तकेन वन्दे' इत्यादिरूपया, भो ! इति शिष्यस्यामन्त्रणे, मनसा भावप्रतिबन्धरूपेण, नित्यं सदैव सत्कारयेत्, न तु सूत्रग्रहणकाल एव, कुशलानुबन्धच्छेदन - प्रसङ्गात् ।।९.१.१२ । ।
(सु.) एतदेव स्पष्टयति - जस्स... इति, यस्यान्तिके - यस्य समीपे धर्मपदानिधर्मफलानि सिद्धान्तपदानि शिक्षेत - आदद्यात् तस्यान्तिके तत्समीपे, किम् ? - इत्याहवैनयिकं प्रयुञ्जीत-विनय एव वैनयिकं तत् कुर्यादितिभावः, कथम् ?-इत्याहसत्कारयेदभ्युत्थानादिना, पूर्वोक्तेन युक्तः शिरसा - उत्तमाङ्गेन प्राञ्जलिः- प्रोद्गताञ्जलिः सन्, कायेन-देहेन, गिरा - वाचा, मस्तकेन वन्दे इत्यादिरूपया भो ! इति शिष्यामन्त्रणं, मनसा च-भावप्रतिबन्धरूपेण, नित्यं सदैव सत्कारयेत्, न तु सूत्रग्रहणकाल एव, कुशलानुबन्धव्यवच्छेदप्रसङ्गादिति ।।९.१.१२ ।।
लज्जा दया संजम बंभचेरं, कल्लाणभागिस्स विसोहिठाणं । जे मे गुरू सययमणुसासयंति, ते हं गुरू सययं पूययामि ।।२.१.१३।।
( ति . ) एवं च मनसि कुर्यात् - लज्जा... इति, लज्जा - अपवादभयरूपा । दया संयमो ब्रह्मचर्यं च । एतानि कल्याणभागिनः - मोक्षार्थिनो जीवस्य । विशोधिस्थानम्कर्ममलापनयनास्पदम् । इति मां गुरवः सततमनुशासयन्ति । तान् अहं गुरून् सततं पूजयामि ।।९.१.१३।।
(स.) एवं च मनसि कुर्यात् - लज्जा... इति, लज्जा दया संयपो ब्रह्मचर्यं च, एतच्चतुष्टयं कल्याणभागिनो मोक्षाभिलाषिणो जीवस्य विपक्षव्यावृत्त्या कुशलपक्षप्रवर्तकत्वेन च विशोधिस्थानं कर्ममलापनयनस्थानं वर्तते, तत्र लज्जा अपवादभयरूपा, दया अनुकम्पा, संयमः पृथिव्यादिविषयः, ब्रह्मचर्यं विशुद्धतपोऽनुष्ठानम्, एतत्कथनेनैतज्जातं, ये गुरवो मां सततं निरन्तरमनुशासयन्ति कल्याणयोग्यतां नयन्ति, तानहमेतादृशान् गुरून् सततं पूजयामि, न तेभ्योऽन्यः पूजायोग्य इति ।।९.१.१३।।
(सु.) एवं च मनसि कुर्यादित्याह - लज्जा दया...इति, लज्जा - अपवादभयरूपा, दया-अनुकम्पा, संयमः पृथिव्यादि - जीवविषयः, ब्रह्मचर्यं विशुद्धतपोऽनुष्ठानं, एतल्लज्जादि विपक्षव्यावृत्त्या कुशलपक्ष प्रवर्तकत्वेन कल्याणभागिनो-मोक्षभागिनो जीवस्य विशोधिस्थानं-कर्ममलापनयनस्थानं वर्त्तते, अनेन 'ये मां गुरव आचार्याः सततं-अनवरतं अनुशासयन्ति - कल्याणयोग्यतां नयन्ति तानहमेवंभूतान् गुरून् सततं