SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ अष्टमम् अध्ययनम् हत्थ-पाय-पेलिछिन्नं, कन्न-नासविगत्तियं । अवि वाससयं नारिं, बंभयारी विवज्जए ।।८. ५५ ।। २७९ (ति . ) किं बहुना ? परिच्छिन्नहस्त-पादाम् । विकृत्तकर्ण-नाशाम् । अपि वर्षशतिकां नारीम् । आस्तां तरुणीं, ब्रह्मचारी विवर्जयेत् ।।८.५५ ।। (स.) हत्थ... इति - किं बहुना ? ब्रह्मचारी साधुरीदृशीमपि नारीं विवर्जयेत्, किमङ्ग पुनस्तरुणीं नारीं सुतरामेव विवर्जयेत्, किंविशिष्टां नारीम् ? हस्त-पादपरिच्छिन्नां, यस्या हस्तौ पादौ छिन्नौ वर्तेते, पुनः किम्भूतां नारीम् ? कर्ण - नासाविकृत्तां, कर्णौ नासा च विकृत्तौ यस्यास्तां, पुनः किम्भूतां नारीम् ? वर्षशतिकाम्, एतादृशीं वृद्धामपि वर्जयेत्, कः कानिव ? महाधनो यथा चौरान् वर्जयेत्. ।।८.५५ ।। (सु.) किं बहुना ? हत्थ इति, हस्त-पादप्रतिच्छिन्नां - प्रतिच्छिन्नहस्त-पादां कर्णनासाविकृत्तामिति-विकृत्तकर्ण-नासामपि वर्षशतिकां नारीं, एवं वृद्धामपि किमङ्ग पुनस्तरुणीं ?, तां तु सुतरामेव, ब्रह्मचारी चारित्रधनो महाधन इव तस्करान् विवर्जयेदिति ।।८.५५ । । विभूसा इत्थिसंसंग्गी, पणीयं रसभोयणं । नरस्स- ऽत्तगवेसिस्स, विसं तालउडं जहा ।।८.५६ ।। (ति.) अपि च - विभूषा - नखकेशादिसंस्काररूपा । स्त्रीसंसर्गः । प्रणीतरसभोजनम्गलत्स्नेहरसाभ्यवहारः । नरस्य आत्मगवेषिणो विषं तालपुटं यथा-यथेदं विषं मृत्यवे भवति तथा साधोरात्मविमर्शनतत्परस्य विभूषादिकं धर्मशरीरमृत्यवे ।।८.५६ । । (स.) विभूसा इति - अपिच नरस्यात्मगवेषिण एतत् सर्वं विभूषादि तालपुटविषं, यथा तालमात्रव्यापत्तिकरविषकल्पं तत् किम् ? - इत्याह-विभूषा वस्त्रादिराढा शोभा, स्त्रीसंसर्गे येन केनचित् प्रकारेण स्त्रीसम्बन्धः, प्रणीतरसभोजनं गलत्स्नेहरसभक्षणम्. ।।८.५६ ।। (सु.) अपि च-विभूसां... इति, विभूषा - वस्त्रादिराढा, स्त्रीसंसर्गः येन केनचित् प्रकारेण स्त्रीसम्बन्धः, प्रणीतरसभोजनं - गलत्स्नेहरसाभ्यवहारः, एतत् सर्वमेव विभूषादि नरस्यात्मगवेषिणः-आत्महितान्वेषणपरस्य, विषं तालपुटं यथा - तालमात्रव्यापत्तिकरविषकल्पमहितमिति ।।८.५६ ।। १. पडिच्छिन्नम् मुद्रितमन्यत्र । २. संसग्गो' इत्यन्यत्र मुद्रितम् ।
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy