SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ १४ दशवैकालिकं-टीकात्रिकयुतम् अतस्तद्विधानार्थमाह- ' आयावयाही 'ति संयमगेहान्मनसोऽनिर्गमार्थमातापय-आतापनां कुरु, एकग्रहणे तज्जातीयग्रहणमिति न्यायात् यथानुरूपमूनोदरतादेरपि विधिः, अनेनात्मसमुत्थ-दोषपरिहारमाह- तथा त्यज सौकुमार्यं परित्यज सुकुमारत्वं, अनेन तूभयसमुत्थदोष-परिहारमाह, तथाहि - सौकुमार्यात् कामेच्छा प्रवर्तते योषितां च प्रार्थनीयो भवति, एवमुभयासेवनेन कामान् क्रम-उल्लङ्घय, यतस्तैः क्रान्तैः क्रान्तमेव दुःखं भवतीति शेषः, खुशब्दोऽवधारणे, कामनिबन्धनत्वाद् दुःखस्य, अधुना अनन्तरं कामक्रमणविधिमाह-छिन्धि द्वेषं - व्यपनय रागं सम्यग्ज्ञानबलेन विपाकालोचनादिना, एवं कृते फलमाह-एवं-अनेन प्रकारेण वर्तमानः किं- 'सुखमस्यास्तीति सुखी भविष्यसि, क्व ?, संपराये- संसारे यावदपवर्गं न प्राप्स्यसि तावत् सुखी भविष्यसि, संपराये - परीषहोपसर्गसङ्ग्राम इत्यन्यः ।।२.५।। पक्खंदे जलियं जोइं, धूमकेउं दुरासयं । निच्छंति वंतयं भुत्तुंळे कुले जाया अगन्धणे ।।२.६।। I (ति.) किञ्च मनसः संयमगृहाद् बहिरनिर्गमार्थं पुनरिदं विचिन्तयेत् — प्रस्कन्दन्तिआक्रामन्ति । ज्वलितं ज्योतिषं- वह्निम् । धूमकेतुं धूमचिह्नम्। दुरासदं दुराक्रमं। नेच्छन्ति वान्तं भोक्तुं कुले जाता अगन्धने । इह सर्पा द्विधा गन्धना अगन्धनाश्च । तत्र ये गन्धनास्ते स्वयं दष्टस्यापि प्रकृष्टमान्त्रिकेणाऽऽकृष्यादिष्टास्तत् स्ववान्तमपि विषमापिबन्ति । अगन्धनास्तु वरं म्रियन्ते, न पुनः स्ववान्तविषमापिबन्ति अयं च राजीमत्याः स्वामिनि श्रीनेमिनाथे गृहीतव्रते स्वस्मिन्ननुरागमावहन्तं रथनेमिं प्रत्युपदेशः । (स.) संयमगृहान्मनस एवाऽनिगमार्थमिदं विचिन्तयेत् — 'पक्खंद' इति - प्रस्कन्दन्ति आश्रयन्ति कं ? ज्योतिषमग्निं, किंविशिष्टं ज्योतिषं ? ज्वलितं ज्वालामालाकुलं, न तु मुर्मुरादिरूपं, पुनः किंविशिष्टं ज्योतिषं ? धूमकेतुं, धूमचिनं धूमध्वजम्, न उल्कादिरूपं, पुनः किंविशिष्टं ज्योतिषं ? दुरासदं दुरभिभवं चशब्दलोपान्न च इच्छन्ति वान्तं भोक्तुं परित्यक्तं विषमिति शेषः, के ? नागा इति शेषः, ते किंविशिष्टा . नागाः ? कुले जाताः समुत्पन्नाः किंभूते कुले ? अगन्धने, नागा द्वेधाः गन्धना १. ०उ १ ।। २. ०त्तं ७-९ ।। ३. ०क्र. ८ ।। ४. ०न्ति प्रविशन्ति ज्व. १२ ।। ५. अग्निः १२ ।। ६. दुरासयं दुरश्रयं दुराकलनीयं १२ ।। ७. अग्न्धने कुले जाता सर्पा वान्तं विषं भोक्तुं नेच्छन्ति, तत्र गन्धनाः मान्त्रिकादिष्टाः स्वयं दृष्टस्यापि वान्तमपि विषमापिबन्ति । श्रीनेमिनाथे गृहीतव्रते रथनेमिनं प्रति राजीमत्या उपदेशः पक्खंदे...० १२ ।। ८. कृष्टादिष्टास्तत् २ ।। ९.०त्र ८ ।। १०. तदत्र प्रस्तावादायातं श्रीनेमिनाथचरितं मूलतः प्ररूप्यते, [चरितं तु अन्यत्र द्रष्टव्यम् ]
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy