________________
२७०
दशवैकालिकं-टीकात्रिकयुतम् (स.) यतश्चैवम् ? - अतः कषायनिग्रहार्थमिदं कुर्यात्-इत्याह-रायणिएसु...इतिसाधू रत्नाधिकेषु चिरदीक्षितादिषु विनयमभ्युत्थानादिरूपं प्रयुञ्जीत, पुनर्बुवशीलतामष्टादशशीलाङ्गसहस्रपालनरूपां सततं निरन्तरं यथाशक्ति न हापयेत्, पुनः कूर्म इव कच्छपवदालीनप्रलीनगुप्तः, अङ्गान्युपाङ्गानि च सम्यक्संयम्येत्यर्थः. पराक्रमेत प्रवर्तेत तपःसंयमे तपप्रधाने संयम इति. ।।८.४०।।.
(सु.) यतश्चैवम् ? - अतः कषायनिग्रहार्थमिदं कुर्यात्-इत्याह-रायणिएसु...इति,साधू रत्नाधिकेषु-चिरदीक्षितादिषु विनयं-अभ्युत्थानादिरूपं प्रयुञ्जीत, तथा ध्रुवशीलतांअष्टादशशीलाङ्गसहस्रपालनरूपां, सततं-अनवरतं यथाशक्त्या न हापयेत्, तथा कूर्म इव-कच्छप इव आलीनप्रलीनगुप्तः अङ्गोपाङ्गानि सम्यक् संयम्येत्यर्थः, पराक्रमेतप्रवर्तेत तपःसंयमे-तपःप्रधाने संयमे इति ।।८.४०।।
निदं च न बहु मन्निज्जा, सप्पहासं विवज्जए । मिहो कहाहिं न रमे, अज्झयणंमि रओ सया ||८.४१।।
(ति.) निद्रां च न बहु मन्येत-प्रकामशायी न स्यात् । सप्रहासम्-अत्यन्तहास्यं विवर्जयेत् । मिथः कथासु-रहोवार्तासु न रमते । अध्ययने-सूत्रवाचनादौ रतः सदा साधुरित्यर्थः ।।८.४१ ।।
(स.) निद'इति-पुनः किञ्च साधुर्निद्रां च न बहु मन्येत न प्रकामशायी स्यात्; पुनः स साधुः प्रहासमतीवहासरूपं विवर्जयेत्, पुनः परस्परं कथासु राहस्यिकीषु न रमेत, तर्हि किं कुर्यात् ?-इत्याह-स्वाध्याये वाचनादौ रतः तत्परः स्यात् सदा.।।८.४१।।
(सु.) किञ्च-निदं च इति, निद्रां च न बहु मन्येत न प्रकामशायी स्यात्, सप्रहासं च-अतीवप्रहासरूपं विवर्जयेत्, मिथःकथासु-राहस्यिकीषु न रमेत, स्वाध्यायेवाचनादौ रतः सदा, एवंभूतो भवेदिति ।।८.४१ ।।
जोगं च समणधम्मम्मि, जुंजे अनलसो धुवं । जुत्तो य समणधम्मम्मि, अटुं लहइ अणुत्तरं ।।८.४२।। (ति.) तथा योगम् मनो-वाक्-कायरूपम् । श्रमणधर्मे-क्षान्त्यादौ । अनलसो
१. अन्यत्र मुद्रितोऽयं पाठस्तु एवं | सज्झायम्मि' इति । वृत्त्यन्तरेपि 'स्वाध्याये' इति विवृत्तम् ।।