________________
२४४
दशवैकालिकं-टीकात्रिकयुतम् परिवर्जकः सदा षट्सु-जीवनिकायेषु । संयतः श्रामण्ये सदा यतः । वदेत् बुद्धः हितम । अनुलोम्नि भवम् आनुलोमिकम्-अत्यन्तमनुकूलं प्रियङ्करम् ।।७.५६ ।।
(स.) यतश्चैवं ?-ततः साधुः किं कुर्यात् ? इत्याह-भासाइ'इति-साधुरेवंविधः सन् हितानुलोमं हितं परिणामसुन्दरमनुलोमं मनोहारि वचनं वदेत्, किं कृत्वा ? भाषायाः पूर्वकथिताया दोषान् गुणांश्च ज्ञात्वा, किंविशिष्टः साधुः ? तस्या दुष्टाया भाषायाः परिवर्जकः, पुनः किंविशिष्टः साधुः ? 'छसु संजए', षट्सु जीवनिकायेषु संयतः, पुनः किंविशिष्टः साधुः ? श्रामण्ये श्रमणभावे चारित्रपरिणामभेदे सदा सर्वकालमुद्युक्तः, पुनः किंविशिष्टः साधुः ? बुद्धः ज्ञाततत्त्वः ।।७.५६ ।।
(सु.) यतश्चैवं ?-अतः भासाए'इति-भाषाया उक्तलक्षणाया दोषांश्च गुणांश्च ज्ञात्वा-यथावदवेत्य तस्याश्च दुष्टाया भाषायाः परिवर्जको-विवर्जकः सदा, एवम्भूतः सन् षड्जीवनिकायेषु संयतः, तथा श्रामण्ये-श्रमणभावे चरणपरिणामगर्भे चेष्टिते सदा यतः-सर्वकालमुद्युक्तः सन् वदेत् बुद्धो हितानुलोम-हितं परिणामसुन्दरं अनुलोममनोहारीति |७.५६ ।।
परिक्खभासी सुसमाहियंदिए, चउक्कासायावगए अणिस्सिए । से निधुणे धुन्नमलं पुरे कडं, आराहए लोगमिणं तहा परं ।।७.५७।। त्ति बेमि
(ति.) परीक्ष्यभाषी-आलोचितवक्ता । सुसमाहितेन्द्रियः । अपगतकषायचतुष्कः । अनिश्रितः-निश्रारहितः । स-साधुः । 'निधनुयात्-अपनयेत् । धून्योऽपनेयो, मल: कर्मरूपः स धून्यमलः, तम् । पुराकृतम् । आराधयेत् । इहलोकं परलोकं च । ब्रवीमिइति पूर्ववत् ।७.५७ ।। तिलकाचार्यटीकायां वाक्यशुद्धि-अध्ययनं समाप्तम् ।।
(स.) अथोपसंहरन्नाह-परिक्खभासी'इति-स एवंविधः साधुरेनं मनुष्यलोकं वाक्संयतत्वेनाराधयति प्रगुणीकरोति, किं कृत्वा ? धूनमलं पापमलं पुराकृतं जन्मान्तरे कृतं, निषूय प्रस्फोट्य, तथा परलोकमाराधयति निर्वाणलोकं यथासम्भवमनन्तरं पारम्पर्येण वा, किंविशिष्टः साधुः ? परीक्ष्यभाषी आलोच्यभाषी, पुनः किंविशिष्टः साधुः ? सुसमाहितेन्द्रियः सुप्रणिहितेन्द्रिय इत्यर्थः. पुनः किंभूतः साधुः ? अपगतचतुष्कषायः क्रोधादिकषाय-निरोधकर्ता इति भावः. पुनः किंभूतः साधुः ?
१. सुवक्कसुद् धी अज्झयणं सम्मत्तं ।।७।। इति मुद्रिते ।। २. निर्धूय १० टि. ।। ३. आराधयति १० टि. ।।