________________
सप्तमम् अध्ययनम्
२४१ (ति.) वायुर्वातः-मलयमारुतादिः । वृष्टम्-वर्षणम् । शीतम्-उष्णम् । क्षेमम्राजादिविड्वरशून्यम् | ध्रातम्-सुभिक्षम्, शिवमिति वा । कदा नु भवेयुरेतानि मा वा भवेयुरिति धर्माद्यभिभूतो न वदेत्-उभयथापि केषाञ्चित् सत्त्वानां पीडासम्भवात् ।।
(स.) वाओ इति.-पुनः किञ्च धर्मादिनाऽभिभूतो यतिरेवं नो वदेत्, अधिकरणादिदोषप्रसङ्गात्, वातादिषु सत्सु सत्वपीडाप्राप्तेः, तद्वचनतस्तथाभवनेऽप्यार्तध्यानभावादित्येवं नो वदेत्, तत् किं ? वातो मलयमारुतादिः, वृष्टं वा वर्षणं, शीतोष्णं प्रतीतं, क्षेमं राजविड्वरशून्यं, पुनर्धातं सुभिक्षं, शिवमिति वा उपसर्गरहितं, कदा नु भवेयुरेतानि वातादीनि, मा वा भवेयुरिति. ।७.५१।।
(सु.) वाओ'इति, वातो-मलयमारुतादिः, वृष्टं वा प्रवर्षणं, शीतोष्णं प्रतीतं, क्षेमंराजविड्वरशून्यं, ध्रातं-सुभिक्षं, शिवमिति चोपसर्गरहितं कदा नु भवेयुः, "एतानि वातादीनि मा भवेयुः इति, घर्माद्यभिभूतो नो वदेद्, अधिकरणादिदोषप्रसङ्गात्, वातादिषु सत्सु सत्त्वपीडापत्तेस्तद्वचनतस्तथाऽभवनेऽप्या-ध्यानभावादिति । ७.५१।।
तहेव मेहं व नहं व माणवं, न देवदेव त्ति गिरं वइज्जा । समुच्छिए उन्नइए वा पओए, वइज्ज वा वुटुं बलाहग त्ति ।७.५२।।
(ति.) तथैव मेघं वा, नभो वा, मानवं वा प्रति देवदेव इति गिरं नो वदेत् - __ मृषावादप्रसङ्गात् । कथं तर्हि वदेत् ? उन्नतं मेघं दृष्ट्वा सम्मूर्च्छित उन्नतो वा पयोदः । वदेद् वा वृष्टो बलाहकः इति ।७.५२ ।।
(स.) किं नो वदेत् ? इत्याह-तहेव'इति-साधुस्तथैव मेघ वा नभो वाऽऽकाशं मानवं वाश्रित्य नो देवदेव इति गिरं वदेत्, मेघमुन्नतं दृष्ट्वोन्नतो देव इति नो वदेत्, एवं नभ आकाशं मानवं राजानं दृष्ट्वा देव इति नो वदेत्, कथं ? मिथ्यालाघवादिप्रसङ्गात्, कथं तर्हि वदेत् ? इत्याह-मेघमुन्नतं वीक्ष्य संमूर्छित उन्नतो वा पयोद इति वदेत्, अथवा वृष्टो बलाहक इति वेदत्, ।।७.५२।।
(सु.) तहेव...इति, तथैव मेघं वा नभो मानवं वाश्रित्य नो देवदेव इति गिरं वदेत्, मेघमुन्नतं दृष्ट्वा 'उन्नतो देव' इति नो वदेत्, एवं नभः-आकाशं मानवं-राजानं देवं इति नो वदेत् मिथ्यावादलाघवादिप्रसङ्गात्, कथं तर्हि वदेत् ? इत्याह मेघमुन्नतं दृष्ट्वा सम्मूर्छित उन्नतो वा पयोद इति, वदेद् वा वृष्टो बलाहक इति ।।७.५२ ।। १. दृष्ट्वेति क. पु. ।