SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ दशवैकालिकं- टीकात्रिकयुतम् आसामलमेतेः वृक्षाः, तथोदकद्रोणीनां उदकद्रोण्योरघट्टजलधारिकाः, एतेषां प्रासादस्तम्भादीनामेते वृक्षा योग्या इति साधुर्न वदेत् ।।७.२७।। २२६ (सु.) कथमित्याह - अलमिति, अलं-पर्याप्ता एते वृक्षाः प्रासाद स्तम्भयोः, अत्रैकस्तम्भः प्रासादः, स्तम्भस्तु स्तम्भ एव, तयोरलं, तथा तोरणानां - नगरतोरणादीनां गृहाणां च-कुटीरकादीनामलमिति योगः, तथा परिघा -ऽर्गला - नावां वा, तत्र नगरद्वारे परिघः, गोपुर-कपाटादिषु अर्गला, नौः प्रतीता, आसां अलं एते वृक्षाः, तथोदकद्रोणीनामलं, उदकद्रोण्योऽरहट्टजलधारिका इति ।।७.२७ ।। पीढए चंगबेरे य, नंगले मइयं सिया । जंतलट्ठी व नाभीवा, गंडिया व अलंसिया ।।७.२८ ।। ( ति.) इह चतुर्थ्यर्थे प्रथमा । पीठकाय- काष्ठासनाय । चङ्गबेरम्-काष्ठपात्री तस्यै । लाङ्गलाय मयिकम् - उप्तबीजाच्छादनं तस्मै । यन्त्रयष्ट्यै वा । नाभिःशकटचक्रतुम्बं तस्मै । गण्डिका- सुवर्णकाराणाम् अधिकरणी तस्यै । अलम् - योग्याः । स्युरेते वृक्षाः ।।७.२८ ।। (स.) पुनराह - पीढए 'इति पीठकायालमेते वृक्षाः अत्र पीठकादिशब्देषु सर्वत्र चतुर्थ्यर्थे प्रथमास्ति, परमर्थस्तु चतुर्थ्येव कार्यः तथा च चङ्गबेरं काष्ठपात्री, तस्मै अलं, तथा लाङ्गलं हलं तस्मै, तथा महिकाय, महिकमुप्तबीजाच्छादनं, तथा यन्त्रयष्ट्यै वा, तथा नाभये वा, नाभिः शकटरथाङ्गं, गण्डिकायै वा, गण्डिका सुवर्णकाराधिकरणस्थापनी, एते वृक्षा अलं समर्था - एवं भाषां साधुर्न भाषेत । ।७.२८ ।। (सु.) तथा - पीढए इति, पीठकायालमेते वृक्षाः, पीठकं प्रतीतं तदर्थं, "सुपां सुपो भवन्ति'[ ] इति चतुर्थ्यर्थं प्रथमा, एवं सर्वत्र योजनीयं तथा 'चंगबेरा य'इति चंगबेरा-काष्ठपात्री तथा नङ्गले त्ति नांगलं-हलं, तथा अलं मयिकाय स्यात्, मयिकंउप्तबीजाच्छादनं, तथा यन्त्रयष्टयै वा यंत्रयष्टिः प्रसिद्धा, नाभये वा, नाभिःशकटरथाङ्गं गण्डिकायै वाऽलं स्युरेते वृक्षा इति, नैवं भाषेत प्रज्ञावानिति वर्त्तते, गण्डिका सुवर्णकाराणामधिकरणी स्थापनी भवतीति ।।७.२८ ।। आसणं सयणं जाणं, हुज्जा वा किंचुवस्सए । भूओवघाइणि भासं, नेवं भासिज्ज पन्नवं ।।७.२९ ।।
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy