SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ ર૧૮ दशवैकालिकं-टीकात्रिकयुतम् नपुंसकं पण्डक इति वा, व्याधिमन्तं वापि रोगी इति, स्तेनं-चौरं चौर इति नो वदेत्, अप्रीति-लज्जा-नाश-स्थिररोग-बुद्धि-विराधनादिदोषप्रसङ्गादिति ।।७.१२ ।। एएणऽन्नेण अटेण, परो जेणुवहम्मइ | आयारभावदोसन्नू, न तं भासिज्ज पन्नवं ।।७.१३।। (ति.) एतेनान्येनार्थेन-उक्तेन सता । परो येनोपहन्यते । आचारभावदोषज्ञःयतिः । न तं भाषेत प्रज्ञावान् ।।७.१३।। (स.) ततः किं कर्तव्यमित्याह-एएण'इति-प्रज्ञावान् बुद्धिमान् साधुस्तमर्थं न भाषेत, किंभूतः साधुः ? बुद्धिमान् आचारभावदोषज्ञः, आचारभावस्य दोषान् जानातीत्याचारभावदोषज्ञः, तमर्थं कं ? येन-एतेनान्येन वा उक्तेन कथितेनार्थेन केनचित् प्रकारेण परोऽन्य उपहन्यते पीडावान् भवति. ७.१३।। (सु.) एएणं ति, एतेनान्येन वाऽर्थेनोक्तेन सता परो येनोपहन्यते, येन केनचित् प्रकारेण आचारभावदोषज्ञो यतिर्न तं भाषेत प्रज्ञावान् तमर्थमिति |७.१३।। तहेव होले गोलि त्ति, साणे वा वसुल(लि) त्ति य । दमए दूहए वा वि, नेवं भासिज्ज पन्नवं ।।७.१४।। (ति.) तथैव होले गोल इति । श्वा वा पांशुल इति । द्रमको दुर्भगो वापि नैव भाषेत प्रज्ञावान् । होलादिशब्दा देशान्तरेषु सम्बोधने नैष्ठुर्यवाचका इति नोच्यन्ते ।।७.१४।। (स.) पुनः साधु कीदृशी भाषां न भाषेत ? इत्याह-तहेव इति बुद्धिमान् साधुस्तथैव तां भाषां न भाषेत, तां काम् ? इत्याह-होल १ गोल २ इति, श्वा ३ वसुल ४ इति, द्रमक ५ इति, दुर्भग इति, इह होलादिशब्दास्तत्तद्देशेषु प्रसिद्धनिष्ठुरतादिवाचका अप्रीत्युत्पादकाश्च, अतस्तेषां प्रतिषेधः प्रोक्तः इति स्त्रीपुरुषयोः सामान्येन भाषणनिषेधः कृतः |७.१४ ।। (सु.) तहेव इति, तथैव, होले गोले इति श्वा वा वसुल इति, द्रमको दुर्भगश्चापि नैवं भाषेत प्रज्ञावान्, इह होलादिशब्दास्तत्तद्देशप्रसिद्धितो नैष्ठुर्यादिवाचकाः, अतस्तत्प्रतिषेध इति ।७.१४ ।। १. वसुल छीनाल १० टि. ।।
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy