________________
२०७
षष्ठम् अध्ययनम् बुद्धास्तीर्थकरा एवंविधं चेतस्तादृशं मन्यन्ते, रौद्रं कर्मबन्धहेतुभूतं विभूषाक्रियासदृशं जानन्ति, किंभूतं चेतः ? विभूषाप्रत्ययं विभूषानिमित्तं, कोऽर्थः, एवं च यदि मम विभूषा सम्पद्यत इति तत्प्रवृत्तमित्यर्थः, सावद्यबहुलं चैतदार्तध्यानेनानुगतं चेतो नेत्थम्भूतं त्रातृभिरात्मारामैराथें साधुभिः सेवितमाचरितं, कुशलचित्तत्वात् तेषां साधूनाम् ।। उक्तः शोभावर्जनास्थानविधिः, तस्याभिधानेन चाष्टादशपदमप्युक्तम्, अष्टादशपदकथनेन चोत्तरगुणा उक्ताः ।।६.६६ ।।।
(सु.) एवं बाह्यविभूषापायमभिधाय सङ्कल्पविभूषापायमाह-विभूसाव...इति, विभूषाप्रत्ययं-विभूषानिमित्तं चेत एवं च यदि मम विभूषा सम्पद्यत इति, तत्प्रवृत्त्यङ्गं चित्तमित्यर्थः, बुद्धाः-तीर्थकरा मन्यन्ते-जानन्ति तादृशं रौद्रकर्मबन्धहेतुभूतं विभूषाक्रियासहितं (सदृशं) सावद्यबहुलं चैतदातध्यानानुगतं चेतः, नैतदित्थम्भूतं त्रातृभिरात्मारामैराः साधुभिः सेवितमाचरितं, कुशलचित्तत्वात् तेषामिति उक्तः शोभावर्जनस्थानविधिस्तदभिधानादष्टादशं पदं, तदभिधानाच्चोत्तरगुणाः, ||६.६६ ।।
खवंति अप्पाणममोहदंसणो, तवेरया संजमअज्जवेगुणा । धुणंति पावाई पुरेकडाई, नवाई पावाइं न ते करंति ।।६.६७।।
(ति.) साम्प्रतमुक्तफलप्रदर्शनेनोपसंहरन्नाह-क्षपयन्ति-शोधयन्ति । आत्मानं-जीवं पूर्वोक्तविधिविधानेन, अमोहं पश्यन्तीत्येवं शीला: अमोहदर्शिनः-यथावत-स्थितार्थदर्शिनः साधवः । तपसि रताः | किं विशिष्टे ? संयमार्जवौ गुणौ यस्य तस्मिन्-संयमार्जवगुणेविचालैकारोऽलाक्षणिकः। उत्तरार्धं स्पष्टम् ।।६.६७ ।।
(स.) साम्प्रतमुक्तफलदर्शनेनोपसंहारमाह-खवंति'इति-य एवंविधाः साधव आत्मानं जीवं, तेन चित्तयोगेनानुपशान्तं शमयोजनेन क्षपयन्ति, किंभूताः साधवः ? अमोहदर्शिनः, अमोहं ये पश्यन्तीत्यर्थः, त एव विशेष्यन्ते-पुनः किम्भूताः साधवः ? तपस्यनशनादिलक्षणे रता आसक्ताः, किम्भूते तपसि ?-इत्याह-संयमार्जवगुणे संयमार्जवे गुणौ यस्य तपसस्तस्मिन्, संयमऋजु-भावगुणप्रधान इत्यर्थः, त एवंभूताः साधवः पापानि धुन्वन्ति कम्पयन्ति, किंभूतानि पापानि ? 'पुरेकडाइं' पुराकृतानि जन्मान्तरेषूपार्जितानि, पुनस्ते साधवो नवानि पापानि न कुर्वन्ति, तथाप्रमत्तत्वादिति. ।।६.६७।।
(सु.) सांप्रतमुक्तफलप्रदर्शनेनोपसंहरन्नाह-खवंति इति, क्षपयन्त्यात्मानं तेन तेन चित्तयोगेनानुपशान्तं शमयोजनेन जीवं, किंविशिष्टा ? - इत्याह-अमोहदर्शिनः