________________
२०४
दशवैकालिकं-टीकात्रिकयुतम्
मानाः सूक्ष्माः श्लक्ष्णाः प्राणिनो द्वीन्द्रियादयः, कासु ? घसासु सुषिरभूमिषु च, पुनर्भिलगासु तथाविधभूमिराजीषु, के ? यान् सूक्ष्मप्राणान् स्नानं कुर्वन् स्नानजलोज्झनक्रियया विकृतेन प्रासुकेन जलेनोत्प्लावयति तथा च सति प्राणिविराधना भवेत्, ततश्च संयमपरित्यागः ।।६.६१।।
·
(सु.) प्रासुकस्नानेन कथं संयमपरित्याग ? इत्याह- संति... इति, संतिमे, सन्त्येते प्रत्यक्षोपलभ्यमानस्वरूपाः, सूक्ष्माः - श्लक्ष्णाः, प्राणिनो - द्वीन्द्रियादयः, घसासु- शुषिरभूमिषु, भिलुकासु च - तथाविधभूमिराजीषु च यांस्तु भिक्षुः स्नपयन् स्नानजलोज्झन-क्रियया विकृतेन प्रासुकोदकेनोत्प्लावयति, तथा च तद्विराधनातः संयमपरित्याग इति ।।६.६१ ।।
तम्हा ते न सिणायंति, सीएण उसिणेण वा । जावज्जीवं वयं घोरं, असिणाणमहिगा ||६.६२।।
(ति.) तस्मात् । ते - साधवः । न स्नान्ति । शीतोदकेन उष्णोदकेन वा । यावज्जीवं व्रतं, घोरम्-दुरनुचरम्, अस्नानम् । अधिष्ठातारः - अस्यैव व्रतस्य कर्तारः ।।६.६२।।
(स.) अथ निगमयन्नाह - तम्हा 'इति - यस्मादेवं दोषा उक्ताः तस्मात् ते साधवो न स्नानं कुर्वन्ति, केन कृत्वा ? शीतोदकेन वा उष्णोदकेन वा प्रासुकाप्रासुकेन वेत्यर्थः, यतस्ते साधवो यावज्जीवमाजन्म घोरम्, दुरनुचरमस्नानमाश्रित्य व्रतमधिष्ठातारः, अस्यैव व्रतस्य कर्तारः ।।६.६२ ।।
(सु.) निगमयन्नाह—–तम्हा'इति, यस्मादेवमुक्तदोष-प्रसङ्गः तस्मात् ते साधवो न स्नान्ति शीतोदके-नोष्णोदकेन वा प्रासुकेनाऽपासुकेन वेत्यर्थः । किंविशिष्टास्ते ?इत्याह-यावज्जीवं-आजन्म, व्रतं घोरं दुरनुचरमस्नानमाश्रित्य अधिष्ठातारः - अस्यैव कर्तार इति ।।६.६२ ।।
सिणाणं अदुवा कक्कं, लुद्धं पउमगाणि य । गायस्सुव्वट्टणट्टाए, नायरंति कयाइ वि ।।६.६३ ।।