________________
दशवैकालिकं- टीकात्रिकयुतम्
(स.) अगुत्ती ' इति तथा पुनः किं भवेत् ? साधोस्तथा निषद्याकरणेन ब्रह्मचर्यस्यागुप्तिर्भवेत्, पुनरुत्फुल्ल-गल्ल-लोचनाया अनुभूतगुणायाः स्त्रियाः सकाशाच्छङ्का भवति, ततः कुशीलवर्धनं स्थानमुक्तेन प्रकारेणासंयमवृद्धिकारकं दूरतः परिवर्जयेत् परित्यजेत् साधुः ।।६.५८ ।।
२०२
(सु.) तथा - अगुत्ती' इति, अगुप्तिर्ब्रह्मचर्यस्य तदिन्द्रियाद्यवलोकनेन, स्त्रीतश्चापि शङ्का भवति एतत्प्रफुल्ललोचनदर्शनादिना अनुभूतगुणायाः, कुशीलवर्धनं स्थानंतदुक्तेन प्रकारेणासंयमवृद्धिकारकं, दूरतः परिवर्जयेत् परित्यजेदिति ।।६.५८ ।।
तिन्हमन्नयरागस्स, निसिज्जा जस्स कप्पइ (ई) । जरा अभिभूयस्स, वाहियस्स तवस्सिणो ।।६.५९ । ।
(ति.) अत्रापवादमाह - त्रयाणामन्यतरस्य - गोचरप्रविष्टस्य । यस्य गृहे । निषद्या कल्पते-तस्य प्रागुक्तदोषा न सम्भवन्ति । कस्य पुनः कल्पन्ते ? इत्याह । जरयाऽभिभूतस्यअतिवृद्धस्य । व्याधितस्य - रोगिणः । तपस्विनः- मासक्षपकादेः । एते च भिक्षाटनं न कार्यन्त एव । आत्मलब्धिकानां त्वेषामेषानुज्ञा, उक्तं षोडशम् ।।६.५९।।
(स.) अथ सूत्रेणापवादमाह - तिन्ह... इति त्रयाणामग्रे वक्ष्यमाणानां मध्येऽन्यतरस्यैकस्य यस्य गोचरप्रविष्टस्य गृहस्थगृहनिषद्या कल्पते, औचित्येन तस्य निषद्यायाः सेवने न दोष इति वाक्यशेषः, कथं पुनः कल्पते ? - इत्याह- जरयाभिभूतस्यात्यन्तं वृद्धस्य, तथा व्याधितस्य रोगवतोऽत्यन्तमसमर्थस्य, तथा तपस्विनो विकृष्टक्षपकस्य, प्राय एते भिक्षाटनं न कार्यन्ते, परमात्मलब्धिकाद्यास्तु भिक्षाटनं कुर्वन्ति, तद्विषयं चैतत् सूत्रं, तत एतेषां प्रायो दोषा न सम्भवन्ति, परिहरन्ति च वनीपकप्रतिघातादीनि. उक्तो निषद्यास्थानविधिः, तस्य कथनाच्च षोडशस्थानमप्युक्तम् ।।६.५९ ।।
(सु.) सूत्रेणैवापदमाह - तिह... इति, त्रयाणां वक्ष्यमाणलक्षणानां अन्यतरस्य एकस्य निषद्या गोचर - प्रविष्टस्य गृहे यस्य कल्पते औचित्येन तस्य तदासेवने न दोष इति वाक्यशेषः, कस्य पुनः कल्पते ? - इत्याह- जरयाऽभिभूतस्यात्यन्तवृद्धस्य, व्याधिमतःअत्यन्तमशक्तस्य, तपस्विनो - विप्रकृष्टक्षपकस्य, एते च भिक्षाटनं न कार्यन्त एव, आत्मलब्धिकाद्यपेक्षया तु सूत्रविषयः, न चैतेषां प्राय उक्तदोषाः सम्भवन्ति, परिहरन्ति