SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १९५ षष्ठम् अध्ययनम् जाई(णि) चत्तारि भुज्जाइं, इसिणाहारमाइणि । ताई तु विवज्जितो, संजमं अणुपालए ।।६.४६ ।। (ति.) अकल्पस्थापनाकल्पं त्वाह-यानि चत्वार्यभोज्यानि-उद्गमादिदोषैरकल्पनीयानि । ऋषीणाम्-साधूनाम्। आहारादीनि-आहार-शय्या-वस्त्र-पात्राणि । तु विवर्जयेत्-अगृह्णन् । संयममनुपालयेत् ।।६.४६ ।।। (स.) अधुना मूलगुणानां वृतिभूता ये उत्तरगुणाः, तेषां प्रतिपादनावसरः, जाइं इतिते चोत्तरगुणा अकल्पादयः षट्, तत्राकल्पो द्विविधः-शिष्यकस्थापनाकल्पोऽकल्पस्थापनाकल्पश्च, तत्र येन नवीनशिष्येण पिण्डनियुक्त्यादि पठितं नास्ति स आहारदोषान् न जानाति, तेनानीत आहारपिण्डो ग्रहीतुं साधूनामकल्पः, स शिष्यकस्थापनाकल्पः, अकल्पस्थापनाकल्पं तु सूत्रकार आह-[जाइं]यानि चत्वार्यभोज्यानि संयमस्य नाशकारित्वेन साधूनामकल्पनीयानि,आहारादीनि आहार-. शय्या-वस्त्र-पात्ररूपाणि, तानि तु साधुर्विवर्जयेत्, संयम सप्तदशप्रकारमनुपालयेत्, अकल्पनीयस्याहारादि-चतुष्टयस्यात्यागे संयमस्याभावो भवेत्. ।।६.४६ ।। (सु.) अधुना अकल्पस्थापनाकल्पं त्वाह-जाणि'इति, यानि चत्वारि अभोज्यानिसंयमापकारित्वेनाकल्पनीयानि, ऋषीणां-साधूनामाहारादीनि,-आहार-वसति-वस्त्रपात्राणि, तानि तु विधिना विवर्जयन् संयम-सप्तदशप्रकारं अनुपालयेत् तदत्यागे संयमाभावादिति ||६.४६ ।। पिंडं सिज्जं च वत्थं च, चउत्थं पायमेव य । अकप्पियं न इच्छिज्जा, पडिगाहिज्ज कप्पियं ।।६.४७।। (ति.) एतदेव स्पष्टयति-स्पष्टः ||६.४७।। (स.) अथैतदेव स्पष्टं कुर्वन्नाह-पिंडं'इति-साधुः (१) पिण्डं (२) शय्यां (३) च वस्त्रं चतुर्थं पात्रमेव च, एतच्चतुष्टयं प्रकटार्थम् अकल्पिकं नेच्छेत्, कल्पिकं तु यथोचितं प्रतिगृह्णीयादिति विधिः. ।।६.४७ ।। (सु.) एतदेव स्पष्टयति-पिंडं'इति, पिण्डं शय्यां च वस्त्रं च चतुर्थं पात्रमेव च, एतत्स्वरूपं प्रकटार्थं, अकल्पिकं नेच्छेत् प्रतिगृह्णीयात् कल्पिकं यथोचितमिति ||६.४७ ।।
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy