SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १८७ षष्ठम् अध्ययनम् पुढविकायं न हिंसंति, मणसा वयसा कायसा | तिविहेण करणजोएणं, संजया सुसमाहिया ।।६.२६ ।। (ति.) उक्तं व्रतषट्कम्, अधुना कायषट्कमुच्यते । तत्र पृथ्वीकायमधिकृत्याहपृथ्वीकायं न हिंसन्ति । मनो-वचन-कायैः । त्रिविधेन करणयोगेन - करणकारणानुमतिरूपेण | संयताः | सुसमाहिताः-सुष्ठु समाधानभाजः ||६.२६ ।। (स.) एवं व्रतषट्कं कथितं, अथ कायषट्कं कथ्यते, तत्र पूर्वं पृथिवीकायमाश्रित्याहपुढवीति-संयताः साधवः पृथिवीकायं न हिंसन्त्यालेखनादिप्रकारेण, केन ? मनसा वाचा कायेन, उपलक्षणमेतदित्याह-त्रिविधेन करणयोगेन मनःप्रभृतिभिः करणकारणानुमोदनारूपेण, किंभूताः संयताः ? सुसमाहिता उद्युक्ताः ||६.२६ ।। (सु.) उक्तं व्रतषट्कं, अधुना कायषट्कमुच्यते, तत्रपृथिवीकायमधिकृत्याहपुढवि'इति, पृथिवीकायं न हिंसन्त्यालेखनादिना प्रकारेण मनसा वाचा कायेन, उपलक्षणमेतदत एवाह-त्रिविधेन करणयोगेन-मनःप्रभृतिभिः करणादिरूपेण, के न हिंसन्तीत्याह-संयता:-साधवः, सुसमाहिता-उद्युक्ता इति ।।६.३६ ।। पुढविकायं विहिंसंतो, हिंसई उ तयस्सिए । तसे य विविहे पाणे, चक्खुसे य अचक्खुसे ।।६.२७।। (ति.) अत्रैव हिंसादोषमाह-पृथ्वीकायं विहिंसन् हिनस्त्येव । तुशब्द-एवार्थे । तदाश्रितान्-पृथ्वीकायाश्रितान् । त्रसांश्च-चकारात् स्थावरांश्च । विविधान् प्राणिनः । चाक्षुषांश्च-चक्षुरिन्द्रियग्राह्यानग्रांश्च ।।६.२७।। __ (स.) अत्रैव हिंसादोषमाह-पुढ...इति-साधुः पृथिवीकायमालेखनादिना प्रकारेण हिंसन् तु निश्चयेन हिनस्त्येव. कानित्याह-प्राणान् द्वीन्द्रियादीन्, किंविधान्? अनेकप्रकारान् त्रसान् चशब्दातस्थावरानप्कायादीन्, किंभूतान् प्राणान् ? तदाश्रितान् पृथिवीसमाश्रितान्, पुनः किंभूतान् प्राणान् ? चाक्षुषान् चक्षुाह्यान् कांश्चित्, पुनः किंभूतान् प्राणान् ? अचाक्षुषान् चक्षुरिन्द्रियेणा-ग्राह्यान्. ।।६.२७ ।। (सु.)अत्रैव हिंसादोषमाह-पुढवि...इति, पृथिवीकार्य हिंसन्नालेखा(खना)दिना प्रकारेण हिनस्त्येव, तुरवधारणार्थो व्यापादयत्येव तदाश्रितान्-पृथिव्याद्याश्रितान् त्रसांश्च
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy