SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १८२ दशवैकालिकं-टीकात्रिकयुतम् वा, पात्रं वा, कम्बलं, पादप्रोञ्छनम्, तदपि । संयमलज्जार्थम्-संयमार्थं पात्रादि, लज्जार्थं लज्जनीयाङ्गाच्छादनार्थं वस्त्रम् । धारयन्ति परिहरन्ति च-कारणे परिहरन्ति, परिभुञ्जते मूर्छारहिता इति ।।६.१९ ।। ___(स.) अत्राह-यद्येवं वस्त्रादि धारयतां साधूनां कथं न सन्निधिरित्याह-जं पि'इतिसाधवो यद्यप्यागमोक्तं वस्त्रं वा चोलपट्टादि वा १, पात्रं वाऽलांब्वादि २. कम्बलं वर्षाकल्पादि ३, पादप्रोञ्छनं रजोहरणं ४ धारयन्ति पुष्टालम्बनविधानेन, परिहरन्ति च परिभुञ्जते च मूर्छारहिताः, तदपि किमर्थं ? संयमलज्जार्थं संयमार्थं पात्रादि, तद्व्यतिरेकेण पुरुषमात्रेण गृहभाजने सति संयमपालनाभावात्, लज्जार्थं वस्त्रं, तद्व्यतिरेकेणाङ्गनादौ विशिष्टश्रुतपरिणत्यादिरहितस्य निर्लज्जताया उत्पत्तेः, अथवा संयम एव संयमलज्जा, तदर्थं सर्वमेव वस्त्रादि धारयन्तीत्यादि ।।६.१९ ।। (सु.) आह-यद्येवं वस्त्रादि धारयतां कथं साधुनामसन्निधिरित्याह-जं पिइति, यदप्यागमोक्तं, वस्त्रं वा-चोलपट्टकादि, पात्रं वा-अल(लं)बुकादि, कम्बलं-वर्षाकल्पादि, पादपुञ्छनं-रजोहरणं, तदपि संयमलज्जार्थमिति, संयमार्थं पात्रादि, तद्व्यतिरेकेण पुरुषमात्रेण गृहस्थभाजने सति संयमपालनाभावात्, लज्जार्थं वस्त्रं, तद्व्यतिरेकेणाङ्गनादौ विशिष्टश्रुतपरिणत्यादिरहितस्य निर्लज्जतोपपत्तेः, अथवा संयम एव लज्जा संयमलज्जा तदर्थं सर्वमेतद् वस्त्रादि धारयन्ति, पुष्टालम्बनविधानेन परिहरन्ति चपरिभुञ्जते च मूर्छारहिता इति ।।६.१९ ।। न सो परिग्गहो वुत्तो, नायपुत्तेण ताइणा | मुच्छापरिग्गहो वुत्तो, ईई वुत्तं महेसिणा ||६.२०।। (ति.) यतश्चैवं ? अतः-पूर्वार्धं स्पष्टम् । उत्तरार्धस्यार्थः । मूर्छा परिग्रहः श्रीवीरेण उक्तः । इत्युक्तं सूत्रे । मर्हर्षिणा-श्रीसुधर्मस्वामिना ||६.२० ।। (स.) न...इति-यतश्चैवं, ततो महर्षिणा शय्यंभवेन गणधरेण सूत्र इत्युक्तं, इतीति किं ? ज्ञातपुत्रेण ज्ञातः प्रधानः क्षत्रियः सिद्धार्थः, तस्य पुत्रेण वर्धमानस्वामिना, नासौ निर्ममत्वेन वस्त्रधारणादिलक्षणः परिग्रह उक्तोऽर्थतः, कस्मात् ? बन्धहेतुत्वाभावात्, किम्भूतेन ज्ञातपुत्रेण ? ताइणा त्रात्रा, स्वपरत्राणसमर्थेन, अपि तु कः परिग्रहो महावीरेणार्थतः प्रोक्तः ?-इत्याह मूर्छा परिग्रह उक्तः, असत्स्वपि वस्त्रादिषु लौल्यं,
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy