SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १६८ दशवैकालिकं-टीकात्रिकयुतम् (सु.) प्रकृतमुपसंहरति-एयं च इति एयं चेति, एनं दोषं-अनन्तरोदितं सत्यपि श्रामण्ये किल्बिषिकत्वादिप्राप्तिरूपं दृष्ट्वा आगमतो, ज्ञातपुत्रेण-भगवता वर्द्धमानेन भाषितं-उक्तं, अणुमात्रमपि-स्तोकमात्रमपि, किमुत प्रभूतं ? मेधावी-मर्यादावर्ती, मायामृषावादं-अनन्तरोदितं विवर्जयेत् परिवर्जयेदिति ||५.२.५० ।। सिक्खिऊण भिक्खेण सोहिं, संजयाण बुद्धाण सगासे । तत्थ मिक्खू सुप्पणिहिदिए, तिब्बलज्जगुणवं विहरिज्जासि ||५.२.५०।। त्ति बेमि (ति.) अध्ययनार्थमुपसंहरन्नाह-पूर्वार्द्धं स्पष्टम् । उत्तरार्द्धस्यायमर्थः । तत्र भिक्षुः सुप्रणिहितेन्द्रियः । तीव्रो लज्जागुणः-यस्यासंयमकरणे स तीव्रलज्जागुणवान् । विहरेत् । ब्रवीमीति प्राग्वत् ।।५.२.५० ।। पिण्डैषणाध्ययने तिलकाचार्यटीका समाप्ता ।। (स.) अथाध्ययनार्थमुपसंहरन्नाइ-सिक्खि...इति-तत्र भिक्षैषणायां भिक्षुर्विहरेत् सामाचारीपालनं कुर्यात्, किं कृत्वा? भिक्षैषणाशुद्धिं पिण्डमार्गणशुद्धिमुद्गमादिरूपां शिक्षित्वाधीत्य, केभ्यः सकाशात् ?-इत्याह-संयतेभ्यः साधुभ्यः; किंविशिष्टेभ्यः संयतेभ्यः, ? बुद्धेभ्यो ज्ञाततत्त्वेभ्यः, ज्ञातार्थेभ्यः न द्रव्यसाधुभ्यः सकाशात्, किम्भूतो भिक्षुः ? सुप्रणिहितेन्द्रियः श्रोत्रादिभिरिन्द्रियैर्गाढं तदुपयुक्तः, पुनः किम्भूतो भिक्षुः ? तीव्रलज्जा, तीव्रा लज्जानाचारकरणे यस्य स तीव्रलज्ज उत्कृष्टसंयम इत्यर्थः पुनः किंभूतो भिक्षुः ? गुणवान् पूर्वोक्तप्रकारेण साधुगुणैः सहितः, ब्रवीमीति पूर्ववत्. ।।५० ।। इति समयसुन्दर टीकायां पिण्डैषणाध्ययने द्वितीयोद्देशकः. २. पिण्डैषणाध्ययनं समाप्तम् ५. (सु.) अध्ययनार्थमुपसंहरन्नाह-सिक्खिऊण'इति, शिक्षयित्वाऽधीत्य भिक्षैषणाशुद्धिंपिण्डमार्गणाशुद्धिमुद्गमादिरूपां, केभ्यः सकाशात् ?-इत्याह-संयतेभ्यः-साधुभ्यः, बुद्धेभ्योऽवगततत्त्वेभ्यो गीतार्थेभ्यो न द्रव्यसाधुभ्यः सकाशात् । ततः किम् ?-इत्याहतत्र भिक्षैषणायां भिक्षुः-साधुः सुप्रणिहितेन्द्रियः-श्रोत्रादिभिर्गाढं तदुपयुक्तः, तीव्रलज्जःउत्कृष्टसंयमः सन्, अनेन प्रकारेण गुणवान् विहरेत्-सामाचारीपालनं कुर्यात्, ब्रवीमीति पूर्ववदिति ।।५.२.५० ।। || इति सुमति. वृत्तौ पिण्डैषणाध्ययने द्वितीय उद्देशकः समाप्तः, समाप्तं च पिण्डैषणाध्ययनम् ।।
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy