SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ पञ्चमम् अध्ययनम् जाणंतु ता 'इमे समणा, आययट्ठी अयं मुणी । संतुट्ठो सेवई पंतं, लूहवित्ती सुतोसओ ।।५.२.३४ ।। (ति.) किमर्थमेवं करोति ? - इत्याह [ जाणंतु ...] स्पष्टः । नवरम् । आयतार्थीआयतो दीर्घोऽनन्तो मोक्षस्तदर्थी ।।५.२.३४ ।। १५९ (स.) किमर्थमेवं कुर्यात् ? इत्याह-जाणं... इति-स लुब्धः साधुरेवं जानाति, एवं किं ? श्रमणाः शेषसाधवस्तावदादौ मां जानन्तु - यथायं मुनिः साधुरायतार्थी मोक्षार्थी, पुनः कीदृशः ? सन्तुष्टो लाभेऽलाभे च समः सन् प्रान्तमसारं सेवते, किम्भूतः मुनिः ? रूक्षवृत्तिः संयमवृत्तिः पुनः किंभूतः ? सुतोष्यो येन केनचित् तोषं नीयत इति . ।।५.२.३४ ।। (सु.) किमर्थमेवं कुर्यादित्याह - जाणंतु 'इति, जानन्तु मां तावत् इमे श्रमणाःशेषसाधवः यथा आयतार्थी- मोक्षार्थी अयं मुनिः- साधुः, सन्तुष्टो - लाभालाभयोः समः सेवते प्रान्तं - असारं, रूक्षवृत्तिः - संयमवृत्तिः, सुतोष्यः येन केनचित् तोषं नीयत इति ।।५.२.३४ ।। पूयणट्ठा जसोकामी, माणसंमाणकामए । बहुं पसवई पावं, मायासल्लं च कुव्वई ।।५.२.३५।। (ति.) ईदृशं कथं करोति ? - इत्याह पूजार्थं यशस्कामी । मानसम्मानकामःमानो वन्दनादिः, सम्मानो वस्त्रादिः । स चैवम्भूतो बहु- अतिप्रचुरम् । पापं प्रसूतेनिवर्तयेत् । तच्च सम्यगनालोचयन् मायाशल्यं च-अनन्तरभवहेतुकं करोति ।।५.२.३५।। (स.) एतदपि किमर्थमेवं कुर्यात् ? इत्याह-पूअण ... इति- एवंविधः साधुर्बहु- अतिप्रचुरं पापं प्रधानक्लेशयोगात् प्रसूते निर्वर्त्तयति तद्गुरुत्वादेव सम्यङ्नाऽऽलोचयति, ततो मायाशल्यं च भावशल्यं करोति, किम्भूतः साधुः ? पूजार्थं यशःकामी, एवं कुर्वतो मम स्वपक्ष-परपक्षाभ्यां सामान्येन पूजा भविष्यतीति यशःकामी, अहोऽयमितिप्रवादार्थी वा, पुनः किम्भूतः साधुः ? मानसम्मानकामुकः, मानो वन्दनाभ्युत्थानलाभनिमित्तः, १. ० १ ५.११ ।।
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy