SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ दशवैकालिकं-टीकात्रिकयुतम् १५२ किंभूतं कोलम् ? अस्विन्नम्, अस्विन्नमिति पदस्यार्थः सर्वत्र योज्यः, पुनस्तिलपर्पटकं पिष्टतिलमयं, तथा नीमं नीमफलम् एतत् सर्वमामं परिवर्जयेत् साधुः ||२१|| (सु.) तहा कोलं'इति, तथा कोलं-बदरं, अश्विन्नं-वह्न्न्युदकयोगेनाऽनापादितविकारान्तरं, तथा वेलुकं वंसकरिल्लं, कासवनालिकां श्रीपर्णीफलं, अस्विन्नमिति सर्वत्र योज्यम् । तथा तिलपर्पटकं पिष्टतिलमयं, नीमं- नीमफलं, आमं परिवर्जयेदिति ।।५.२.२१।। तहेव चाउलं पिट्टं, वियडं वा तत्तनिव्वुडं । तिलपिट्ठ पूइपिन्नागं, आमगं परिवज्जए ।।५.२.२२ ।। (ति.) तथैव ताण्डुलपिष्टम् लोष्टमित्यर्थः । वितटम् - विशिष्टनदीकूपतटादेरानीतं, यद्वा विगततटम्-आन्तरिक्षं धौतश्वेतपट्यादिना गृहीतम् । तप्तानिर्वृतम्-अवलितत्रिदण्डम्। तिलपिट्टम्-तिलवर्त्तिका । पूति - पवित्रम् । पिण्याकम् - सर्षपखलम् । आमकं परिवर्जयेत् ।।५.२.२२।। (स.) पुनः किं वर्जयेत् ? - साधुस्तदाह - तह... इंति - संयतस्तथैव तान्दुलं पिष्टं लोट्टमित्यर्थः, तथा विकटं वा शुद्धोदकं, तथा तप्तनिर्वृतं क्वथितं सच्छीतीभूतं तप्तानिर्वृतं वा यत् त्रिदण्डोत्कलितं न जातं तथा तिलपिट्टं तिललोष्टं, तथा पूति पिण्याकं सर्षपखलम्, एतत् तान्दुललोष्टादि पञ्चकं कीदृशम् ? आमकमपक्वं तत् सर्वं परिवर्जयेत्. ।।५.२.२२ ।। (सु.) तहेव इति, तथैव तान्दुलं पिष्टं - लोष्ठ (इ) मित्यर्थः, विकटं वा शुद्धोदकं, तथा तप्तनिर्वृतं=क्वथितं सत् शीतीभूतं तप्तानिर्वृतं वा - अप्रवृत्तत्रिदण्डं तिलपिष्ठंतिललोष्ठं(ट्टं) पूतिपिन्नागं- सिद्धार्थकखलं, आमं परिवर्जयेदिति ।।५.२.२२।। कविट्टं 'माउलिंगं च, मूलगं मूलगत्तियं । आमं असत्थपरिणयं, मणसा वि न पत्थए ।।५.२.२३।। (ति.) कपित्थम् । मातुलिङ्गम् । मूलकम्- सपत्रडालम् । मूलकर्त्तिकाम्-मूलकन्दस्य चक्कलाम् । शेषं स्पष्टम् ।।५.२.२३ ।। १. माउलंगं - इत्यपि पाठः ।।
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy