SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १३८ दशवैकालिकं-टीकात्रिकयुतम् चारित्रिणोऽमी, महासत्त्वा, निर्ममा, इहलोकनिरपेक्षाः, मोक्षमार्गकदृष्टयः, सत्पात्रभूता इति बुद्ध्या भक्त-पान-वस्त्र-पात्रादिभिस्तेषामुपकुर्वते । इत्येते मुधादायिनो दुर्लभाः। मुधाजीविनः-ज्योतिष-निमित्त-मन्त्र-तन्त्र-सस्नेहालापा-सनाद्यर्पणासद्भूतस्वाजन्यकरणममत्वदर्शनादि-वात्सल्यैर्भक्त-पान-वस्त्राद्यर्थं निरीहतया गृहस्थान्नावर्जयन्ति ते दुर्लभाः मुधादायिनो मुधाजीविनश्च द्वयेऽपि गच्छन्ति द्वावपि गच्छतः । सुगतिम्-सिद्धिगतिमिति, कदाचिदनन्तरमेव कश्चिद् देवलोक-सुमानुषत्वप्रत्यागमनपरम्परया । इति-समाप्तौ ब्रवीमिति पूर्ववत् ।।५.१०० ।। अत्र मुधादायकत्वे धर्मं प्रपित्सुभद्रकः श्रेष्ठी, मुधाजीवित्वे च साधुद्वयं 'दृष्टान्तः । तिलकाचार्यवृत्तौ पंचमे प्रथमोवेशः समाप्तः ।। . (स.) मुधाजीवी' इति दुर्लभमेतद् दर्शयति-दुल्लहा...इति-दुर्लभा एवंविधा दातारस्तथाविधभागवतवत्. मुधाजीविनोऽपि दुर्लभास्तथाविधचेल्लकवत्, एतयोः कथानके वृत्तितो ज्ञेये. अमीषां फलमाह-मुधा दातारो मुधाजीविनश्च द्वावप्येतौ सुगतिं सिद्धिगतिं गच्छन्ति. कदाचित् तस्मिन्नेव भवे, कदाचिद् देवलोकसुमानुषत्वप्रत्यागमनपरम्परया. ब्रवीमीति पूर्ववत्. ।।५.१०० ।। इति श्रीदशवैकालिकसूत्रस्य शब्दार्थवृत्तौ श्रीसमयसुन्दरोपाध्यायविरचितायां पिण्डैषणाध्ययनस्य प्रथमोद्देशकः समाप्तः (सु.) एतद् दुरापमपि दर्शयति 'दुल्लहा...इति-दुर्लभा एव मुधादातारः, तथाविधभागवतवत्, मुधाजीविनोऽपि दुर्लभाः तथाविधचेल्लकवत्, अमीषां फलमाहमुधादातारो मुधाजीविनश्च द्वावप्येतौ गच्छतः सुगति-सिद्धिगतिं कदाचिदनन्तरमेव, कदाचित् देवलोक-सुमानुषत्व-प्रत्यागमपरम्परया, ब्रवीमीति पूर्ववत् । अत्र भागवतोदाहरणम् (दृ० ३)-कश्चित् परिव्राजकः कञ्चनापि भक्तिमन्तं भागवतमवादीत्-यदि मदीयोदन्तमुद्वहसि, ततोऽहं तव गृहे वर्षासमयमतिवाहयामि, तेनोक्तम्-यदि मदीयां तप्तिं न करोषि, तेनोक्तम्-एवं करिष्ये, ततः प्रदत्तस्तेन तस्मै समाश्रयः, तद्रक्षणं चकार भोजनादिभिस्तस्य गृहाधिपतिः, अतिक्रान्ते च कियत्यपि काले-एकदा प्राप्तच्छिद्रैश्चौरैस्तस्य भागवतस्य प्रधानोऽश्वः प्रमादेन रक्षकाणामपहृतः, प्रभातं वर्तते इति न शक्ताः ते तमश्वं निर्वोदूं, ततोऽतिवृक्षगहने बद्ध्वा तं, तेऽन्यत्रोपययुः, १. तत्कथा च अन्यत्र दर्शनीया ।।
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy