________________
११९
पञ्चमम् अध्ययनम् साधुः ? सर्वेन्द्रियसमाहितः शब्दादिषु रागद्वेषावकुर्वाणः. ।।५.६६ ।।
(सु.) गोचराधिकार एव गोचरप्रविष्टस्य होज्ज'इति, भवेत् काष्ठं शिलां वापि इट्टालं वापि, एकदा-एकस्मिन् काले प्रावृडादौ स्थापितं सङ्क्रमार्थं तच्च भवेच्चलाचलंअप्रतिष्ठितं, न च भवेत् स्थिरमेवेति सूत्रार्थः ।।५.६५।।
'न तेणं' इति सूत्रं, न तेन काष्ठादिना भिक्षुर्गच्छेत्, किमित्याह-दृष्टस्तत्रासंयमः, तच्चलने प्राण्युपमर्दसम्भवात्। तथा गम्भीरं-अप्रकाशं, शुषिरं-चैवान्तःसाररहितं, सर्बेन्द्रियसमाहितः-शब्दादिषु रागद्वेषावगच्छन् परिहरेदिति ।।५.६६ ।।
निस्सेणिं फलगं पीठं, ऊसवित्ताणमारुहे | मंचं कीलं च पासायं, समणट्ठा एव दावए ।।५.१.६७।।
दुरूहमाणी पवडिज्जा, हत्थं पायं च लूसए । पुढविजीवे विहिंसिज्जा, जे य तन्निस्सिया जगा ।।५.१.६८।।
एयारिसे महादोसे, जाणिऊण महेसिणो । तम्हा मालोहडं भिक्खं, न पडिगाहंति संजया ।।५.१.६९।।
त्रिभिर्विशेषकम् (ति.) तथा-निश्रेणी फलकं पीठं मञ्च कीलं च उच्छ्रित्य-ऊर्वीकृत्य । आरोहेत् प्रासादं श्रमणार्थमेव दायकः | मालादानीय श्रमणानां भिक्षां दातुम् । अत्र दोषमाहदुरुहमाणी-आरोहन्ती प्रपतेत् । प्रपतन्ती च हस्तं पादं वा लूषयेत् । तथा पृथ्वीकायान् विहिंस्यात् । कथंचित् तत्रस्थान् ये च तन्निःश्रिताः-तदाश्रिताः | जगा'इति-गमधातुः, गच्छन्तीत्येवं शीलाः, द्युतिगमोढ़े च क्विपि जगच्छब्दनिष्पत्तिः । ततो जगच्छब्देन गमनशीलास्त्रसाः प्राणिनः उच्यन्ते । तांश्च हिंस्यात् । तृतीया गाथा स्पष्टा ||५.६७-५.६९।।
(स.) पुनः कीदृशे प्रकारे न गृह्णीयात् ? -इत्याह-निस्सेणि'इति-दाता श्रमणार्थं साधुनिमित्तं प्रासादं यद्यारोहेत्, तदा साधुर्भिक्षां न गृह्णीयात्, किं कृत्वा प्रासादमारोहेत? निश्रेणिं फलकं पीठं मञ्च कीलं चोत्सृज्योर्ध्वं कृत्वा. ||६७।।