SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ पञ्चमम् अध्ययनम् ११७ तापातिशयेन मा भूत्, उद्वतिष्यत' इत्यपोह्य दद्यादिति ।।५.६१।। (सु.) 'तं भवे'इति-तद् भवेद् भक्तपानं तु संयतानामकल्पिकं, अतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति ।।५.६२ ।। उसक्किया ओसक्किया, उज्जालिया पज्जालिया निव्वाविया । उस्सिंचिया निस्सिंचिया, उवत्तिया उयारिया दए ।।५.१.६३।। तं भवे भत्तपाणं च संजयाण अकप्पियं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ।।५.१.६४।। (ति.) एवं मम भिक्षां ददत्या माग्निर्विध्यायतु इति उल्मुक (कानि) उत्सl अग्नेमध्ये प्रेर्य ददाति । ओसक्किया-अपसर्प्य अतिदाहभयादुल्मुकानि उत्सार्य । उज्ज्वाल्य-अर्धविध्यातं स्तोकेन्धनप्रक्षेपेण । प्रज्वाल्य-बहुतरेन्धनप्रक्षेपेण । निर्वाप्यपाक्यदाहभयाद् विध्याप्य । उत्सिञ्च्य-उद्भवनादुज्झनभयेन कियदप्यन्यत्रोत्सार्य । तथा उद्भवन्तमुदकेन निषिच्य । अपवर्त्य-अग्न्युपरिस्थभाजनवस्तुभाजनान्तरे सञ्चार्य | अवतार्य-दाहभयाद् दानार्थं वा अग्न्युपरिस्थं भाजनं बहिर्विमुच्य साधोभिक्षां दद्यात् ।।५.६३-५.६४।। (स.) पुनः कीदृशमशनादि न गृह्णीयात् ? - इत्याह-'एवमुस्सिक्किआ' इति, यावद् भिक्षां ददामि तावन्मा भूद् विध्यासतीत्युत्सिच्य दद्यात् १, ‘एवमोस्सक्किआ' इत्यवसl अतिदाहभयादुल्मकान्युत्सार्येत्यर्थः २, एवमुज्जालिआ उज्ज्वाल्यार्धविध्यातं सकृदिन्धनप्रक्षेपेण, पज्जालिआ, प्रज्वाल्य पुनः पुनः, ३, एवं निव्वाविआ, निर्वाप्य दाहभयादिनेति भावः ४, एवमुसिंचिआ, निस्सिंचिआ उत्सिच्यातिभृतादुब्म(ज्झ)नभयेन, ततो वा दानार्थं तीमनादि निषिच्य तद्भाजनाद् रहितं द्रव्यमन्यत्र भाजने न दद्यात्, उद्वर्तनाभयेन वाद्र(?)हितमुदकेन निषिच्य दद्यात्, ५, एवम्-उवत्तिआ ओआरिया, अपवर्त्य तेनैवाग्निनिक्षिप्तेन भाजनेन, अन्येन वा दद्यात्, तथावतार्य दाहभयाद् दानार्थं वा दद्यात्, तदन्यच्च साधुनिमित्तयोगे न कल्पते. ।।३।। __ अथ कदाचित् पूर्वोक्तप्रकारेण तादृशं काचिद् ददाति, तदा तां प्रति साधुः किं १. ओ.३ ।। २.०क.५-१२ ।। ३. अद्दहियगदव्वं इति चूर्णी ।
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy