SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ पञ्चमम् अध्ययनम् ११५ (सु.) संशयव्यपोहायोपायमाह-'उग्गमं'इति-उद्गम-तत्प्रसूतिरूपं, "से' तस्य शङ्कितस्य अशनादेः पृच्छेत् तत्स्वामिनं कर्मकरं वा, यथा कस्यार्थमेतत् ? केन वा कृतमेतदिति, श्रुत्वा तद्वचो न भवदर्थं, किं त्वन्यार्थमित्येवम्भूतं निःशङ्कितं शुद्धं सद् ऋजुत्वादिभावगत्या प्रतिगृह्णीयात् संयतः । विपर्ययग्रहणे दोषादिति ।।५.५६ ।। असणं पाणगं वा वि, खाइमं साइमं तहा | पुप्फेसु हुज्ज उम्मीसं, बीएसु हरिएसु वा ।।५.१.५७।। तं भवे भत्तपाणं तु, संजयाण अकप्पियं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ||५.१.५८।। (ति.) इह तृतीयार्थे सप्तमी । पुष्पै/जैर्हरितैः उन्मिश्रम् ||५७।।, स्पष्टः ।।५८ ।। (स.) पुनः कीदृशं न गृह्णीयात् ? - तद् आह-असणं'इति-अशनं पानकं वा पि खाद्यं स्वाद्यं तथा पुष्पैर्जाति-पाटलादिभिर्बीजैर्हरितैर्वा यदि उन्मिभं भवेत्, तदा संयतो न गृह्णीयात्. ।।५.५७ ।। ददतीं च किं वदेत् ?- तद् आह-तं'इति पूर्ववत्- ||५८ ।। (सु.) तथा 'असणं'ति-अशनं पानकं वापि खाद्यं स्वाद्यं तथा, पुष्पैःजातिपाटलादिभिः भवेदुन्मिश्रं बीजैर्हरितैर्वेति ।।५.५७ ।। 'तं भवे' इति-तादृशं भक्तपानं तु संयतानामकल्पिकं, यतश्चैवम् ?- अतो ददतीं प्रत्याचक्षीत-न मम कल्पते तादृशमिति सूत्रार्थः ।।५.५८ ।। असणं पाणगं चेव खाइमं साइमं तहा । उदगंमि हुज्जा निक्खित्तं, उत्तिंगपणगेसु वा ।।५.१.५९ ।। तं भवे भत्तेपाणं तु, संजयाण अकप्पियं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ।।५.१.६०।। (ति.) स्पष्टः ।।५९-६०।। (स.) पुनः कीदृशं न गृह्णीयादित्याह-असणमिति अशनं पानकं वापि खाद्यं १.जीवोना दर १० टि. ||
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy