SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ १११ पञ्चमम् अध्ययनम् नीसाए'इति-निसोदिकया पीषिण्येत्यर्थः । पीठकेन वा-आसनपट्टेन । लोढेण वापिशिलापुत्रकेन । लेपेन-मृल्लेपादिना । श्लेषेण वा केनचिद्-जतु-लाक्षादिना ||५.४५।। (स.) पुनः कीदृशमाहारं न गृह्णीयात् ? - इत्याह-दग...इति-यदशनादि भाजनस्थं दकवारेण पानीयकुम्भेन पिहितं स्थगितं भवेत्, तथा नीसाए'त्ति निस्सारिकया पेषण्या, पीठकेन काष्ठपीठादिना, लोढेन वापि शिलापुत्रकेण, तथा लेपेन वा मृल्लेपादिना, श्लेषेण वा केनचिज्जतुसिक्थादिना पिहितं भवेत् ।।५.४५।। (सु.) किञ्च–'दगवारेण पिहियं इति दकवारेण उदककुम्भेन पिहितं-स्थगितं भाजनस्थं, तथा 'नीसाए'इति पेषण्या, पीठकेन-काष्ठपीठादिना, लोढेन चापि शिलापुत्रकेण, तथा लेपेन-मृल्लेपादिना, श्लेषेण केनचिज्जतुसिक्थादिनेति ।।५.४५।। तं च उभिंदिउं दिज्जा, समणट्ठा एव दायए । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ।।५.१.४६ ।। (ति.) तच्च-पिहितलिप्तादिकम् । उद्भिज्य श्रमणार्थं दायको देयात् । उत्तरार्धं प्राग्वत् ।।५.४६ ।। (स.) तत् किं कुर्यात् ? - इत्याह – तं'इति पुनः तच्चैतैः पूर्वोक्तैः स्थगितं लिप्तं वा श्रमणार्थं नात्मार्थं सकृदुद्भिद्य दायको दद्यात्, तदित्थं भूतं ददती स्त्रियं साधुर्वदेन्न मम कल्पते तादृशमिति. ।।५.४६ ।। ___ (सु.) 'तं च'इति तच्च उब्भिंदितुं, स्थगितं लिप्तं सत् उद्भिद्य दद्यात् श्रमणार्थं दायकः, नात्माद्यर्थं, तदित्थम्भूतं ददतीं प्रत्याचक्षीत-न मम कल्पते तादृशमिति ।।५.४६।। असणं पाणगं वा वि, खाइमं साइमं तहा । जं जाणिज्ज सुणिज्जा वा, दाणट्ठा पगडं इमं ।।५.१.४७।। (ति.) किञ्च-[असणं] स्पष्टः । नवरम् । दानार्थं प्रकृतम् - साधुवादनिमित्तम् ।।५.४७।। (स.) पुनः कीदृशं न गृह्णीयात् ? इत्याह-असणं'इति अशनं मुद्गादि, पानकं १. उब्मिंदिआ'इति पाठोऽन्यत्र मुद्रिते ।।
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy