SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ पञ्चमम् अध्ययनम् ९५ अचिअत्तं कुलम्. अप्रीतिकुलं यत्र प्रविशद्भिः साधुभिरप्रीतिरुत्पद्यते, न च निवारयति कुतश्चिन्निमित्तान्तरादेतन्न प्रविशेत् तथा चिअत्तं कुलं - पूर्वोक्ताद्विपरीतं कुलं प्रविशेत्, तदनुग्रहप्रसङ्गात्. ।।५.१७।। (सु.) 'पडिकुट्ठकुलं' इति, प्रतिकुष्टकुलं द्विविधं - इत्वरं यावत्कथिकं च इत्वरं सूतकयुक्तं, यावत्कथिकं-अभोज्यं, एतन्न प्रविशेत्, शासनलघुत्वप्रसङ्गात् । मामकं यत्राह गृहपतिर्मा मम कश्चिद् गृहमागच्छेत् एतत् वर्जयेत् भण्डनादिप्रसङ्गात् । 'अचिअत्तकुलं-अप्रीतिकुलं यत्र प्रविशद्भिः साधुभिरप्रीतिरुत्पद्यते, न च निवारयन्ति कुतश्चिन्निमित्ता-ऽन्तरात्, एतदपि न प्रविशेत्, तत्सङ्क्लेशनिमित्तत्वप्रसङ्गात् । 'चियतं'इति एतद्विपरीतं अचिअत्तविपरीतं प्रविशेत् कुलं, तदनुग्रहप्रसङ्गादिति ।।५.१७।। साणीपावारपिहियं, अप्पणा नावपंगुरे । कवाडं नो पणुल्लिज्जा, उग्गहं से अजाइया ।।५.१.१८ ।। (ति.) किं च - शाणी शणा - ऽतसीवल्कलजा पटी । प्रावारः- कम्बलादिः । एभिः पिहितम्-स्थगितम् । गृहमिति शेषः । आत्मना नापवृणुयात् । भुञ्जानानां प्रद्वेषसम्भवात् । कपाटं न प्रणोदयेत् । अवग्रहम् 'से'- तस्य । अयाचित्वा-विधिना धर्मलाभमकृत्वेत्यर्थः । । (स.) साणी- इति किंच साधुरेवंविधं, गृहमिति शेषः आत्मना स्वयं नापवृणुयात् नोद्घाटयेत्, किंभूतं गृहं ? शाणीप्रावारपिहितं, शाणी शणा - ऽतसीवल्कजा पटी, प्रावारः प्रतीतः, कम्बलादीनामुपलक्षणमेतत्. इत्यादिभिः पिहितं स्थगितम्, अलौकिकत्वेन च तदन्तर्गतभुजि-क्रियादिकारिणा प्रद्वेषप्रसङ्गात्, तथा कपाटं द्वारस्थगनं न प्रेरयेत्, पूर्वोक्तदोषप्रसङ्गात्, किमविशेषतो नेत्याह-किं कृत्वा ? अवग्रहमयाचित्वा गाढप्रयोजनेऽननुज्ञाप्यावग्रहं विधिना धर्मलाभमकृत्वा ।।५.१८ ।। (सु.) किञ्च - 'साणीपावार - पिहियं इति शाणी - अतसीवल्कजा पटी, प्रावारःप्रतीतः, कम्बलाद्युपलक्षणमेतत्, एवमादिभिः पिहितं- स्थगितं, गृहमिति वाक्यशेषः । आत्मना-स्वयं, नापवृणुयात्-नोद्घाटयेदित्यर्थः । अलौकिकत्वेन तदन्तर्गतभुजिक्रियादिकारिणां प्रद्वेषप्रसङ्गात् । तथा कपाटं द्वारस्थगनं न प्रेरयेत्-नोद्घाटयेत् पूर्वोक्तदोषप्रसङ्गात्, किमविशेषतो ? न, इत्याह- अवग्रहमयाचित्वा - आगाढप्रयोजनेऽननुज्ञाप्यावग्रहं विधिना धर्मलाभमकृत्वेति । । ५.१८ ।।
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy