SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ २६ अनाकारोपयुक्तेभ्यः साकारोपयुक्ताः सङ्ख्येयगुणाः, यतोऽनाकारोपयोगकालः सर्वस्तोकोऽतस्ते पृच्छासमये स्तोका एव प्राप्यन्ते । इतरः साकारोपयोगकाल इतरो दीर्घ इति पृच्छासमये साकारोपयोगिनो बहवः प्राप्यन्तेऽतस्ते सङ्ख्यातगुणाः ।। ७६ ।। द्वारम् १३ ॥ थोवाणाहारजिया तत्तो आहारगा असंखगुणा । विग्गहगहणो जम्हा णाहारा तेण ते थोवा ॥ ७७ ॥ अंनोमुहुत्त समयप्यमाणया विग्गहम्मि वहति । सुहमनिगोआ उ जिया तेहिं हीणा उ सेसजिया ॥७८ ते विग्गही निगोआ णाहारा 'पढमविग्गहं मुत्तं । सेस अविग्गहवित्ती अस्संखाहारगा ते य ॥ ७९ ॥ ॥ दारं १४ ॥ सर्वस्तोका अनाहारका जीवाः, विग्रहगत्यापन्नादीनामेवानाहारकत्वात । उक्तं च- "विग्गहगहमावना केवलिणो समुहया अजोगी य। सिद्धा य अणाहार सेसा आहारगा जीवा ।" इत्यादि । तेभ्य आहारका असङ्घयेयगुणाः । ननु वनस्पतिकायानां सिद्धेभ्योऽप्यनन्तत्वात्तेषां I १. यत एकवक्रायां गतौ समयद्वयेऽप्याहारक एव आद्यसमये प्राग्भवस्याहारः । द्वितीयसमये परभवस्य । अतः प्रथमविग्रहं मुक्त्वेत्युक्तम् ।
SR No.022608
Book TitlePragnapanopang Tritiya Pad Sangrahani
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year7989
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy